________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [३१], भाष्यं [-] वि० भा० गाथा [५९९-६०० ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
उपोद्घाते ४ समयाः, विग्रहगत्यभावाच्चैतेषु त्रिष्वपि समयेष्वाहारकस्तत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मपनकर्जीवो जधन्यावगाहनश्चासौ, ततस्तच्छरीरमानं जघन्यमवधिक्षेत्रं, तश्चायुक्तं यतस्त्रिसमयाहारकस्येति विशेषणं पनकस्य, न तु मत्स्यस्य, नच मत्स्यायामप्रतर संहरणसमयौ पनकभवस्य सम्बन्धिनौ, किन्तु मत्स्यभवस्य तत उत्पादसमयादारभ्य त्रिसमयाहारकस्येति | द्रष्टव्यं नान्यथा, एतावत्प्रमाणजघन्यक्षेत्रस्यावधिः तैजसभाषाप्रायोग्यवर्गणापान्तरालवर्त्ति द्रव्यमालम्बते, 'तेयाभासादद्दाणमंतरा एत्थ लहइ पट्टवतो' इतिवक्ष्यमाणवचनात् ॥ तदेवं जघन्यमवधेः क्षेत्रमुक्तम्, साम्प्रतमुत्कृष्टमभिधा
॥ ५३ ॥
तुकाम आह
“सबबहुअगणिजीवा निरंतरं जत्तियं भरिवंसु । खेत्तं सङ्घदिसागं परमोही खेत निदिट्ठो ॥ ३१ ॥” 'सवत्रहु' इति, यत ऊर्द्धमन्य एकोऽपि जीवो न कदा चनापि प्राप्यते ते सर्व बहवः, सर्वबहवश्च तेऽग्निजीवाः सूक्ष्मवादररूपाः सर्वबह्नग्निजीवाः, कदा सर्ववहग्निजीवा इति चेत्, उच्यते, यदा सर्वासु कर्मभूमिषु निर्व्याघातं अग्निकायसमारम्भकाः सर्वबहवो मनुष्याः, ते च प्रायोजितस्वामितीर्थकरकाले प्राप्यन्ते यदा चोत्कृष्टपदवर्तिनः सूक्ष्मानलजीवास्तदा सर्वबहग्निजीवपरिमाणं, उक्तं च- अबाधाए सवासु कम्मभूमीसु जं तदारंभा । सबबहवो मणुस्सा, होन्तऽ जियजिनिंद| कालंमि ॥ १ ॥ उक्कोसया य सुहुमा जया तथा सबबहुगमगणीणं । परिमाण” मिति, (वि.५९९-६००) 'निरन्तर' मिति क्रिया- ॥ ५३ ॥ विशेषणं, यावद् - यावत्परिमाणं क्षेत्रं 'भृतवन्तो' व्याप्तवन्तः किमुक्तं भवति । -नैरन्तर्येण विशिष्टसूचीरचनया यावद्वया| सवन्तः, व्याप्तवन्त इति भूतकालनिर्देश' अजितस्वामिकाल एव च प्रायः सर्वबहवोऽनलजीवा अस्यामवसर्पिण्यां भवन्ति
Jan Education International
Far Pavoce & Personal Use Ony
अवघे
कृष्टक्षेत्र ३१
121~
www.janlibrary.org