________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
Jan Educat
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [३०], भाष्यं [-] वि० भा० गाथा [५९३-५९४ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
सातव्यं, उक्तं च- योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह स ग्राह्यः ॥ १ ॥ संहृत्य चाद्यसमये सद्यायामं करोति च प्रतरम् । सङ्ख्यातीताख्याकुल विभागबाहल्यमानं तु ॥ २ ॥ स्वतनु (क) पृथुत्वमात्रां दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ ३ ॥ सङ्ख्यातीताख्याङ्गुल विभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या तृतीयसमये तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । | समयत्रयेण तस्यावगाहना यावती भवति ॥ ५ ॥ तावज्जघन्यमव धेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥ ६ ॥” अत्र कश्चिदाह - किमिति योजनसहस्रायामो मत्स्यः, किं वा तस्य तृतीयसमये स्वदेहृदेशे सूक्ष्मत्वेनोत्पादः किं वा त्रिसमयाहारकत्वं परिगृह्यते १, उच्यते, इह योजन सहस्रमानो मत्स्यः स किल त्रिभिः समयैः आत्मानं सङ्क्षिपति महतः प्रयक्षविशेषात्, महाप्रयत्नविशेषाधिरूढश्चोत्पत्तिदेशेऽवगाहनामारभमाणो अतीव सूक्ष्मामारभते, ततो महामत्स्यस्य ग्रहणं, सूक्ष्मपनकश्चान्यजीवापेक्षया सूक्ष्मावगाहनो भवति, ततः सूक्ष्मपनकग्रहणं, तथा उत्पत्तिसमये द्वितीये समये चातिसूक्ष्मो भवति चतुर्धादिषु तु समयेष्वतिस्थूरस्त्रिसमयाहारकस्तु योग्यस्ततस्त्रिसमयाहारकग्रहणं, उक्तं च- "मच्छो महलकाओ संखितो जो उ तीहिं समएहिं । स किर पयत्तविसेसेण सहभोगाहणं कुणइ ॥ १ ॥ सहयरा सण्हयरो सुहुमो पणगो जहण्णदेहो य । सुबहुविसेसविसिहो सण्हयरो सवदेहेसु ॥ २ ॥ पढमबीएतिसण्हो जमइत्थूलो चउत्यादीसु । तइयसमयमि जोग्गो गहियो तो तिसमयहारो ॥ ३ ॥ (वि. ५९३ - ५९४ ) ” अन्ये तु व्याचक्षते - त्रिसमयाहार कस्येति, आयामप्रतरसंहरणे समयद्वयं तृतीयश्च समयः सूची संहरणोत्पत्तिदेशागमविषयः, एवं त्रयः
For Peace & Personal Use Only
120~
wjanlibrary.org