________________
आगम
(४०)
प्रत सूत्रांक
H
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १
अध्ययनं [-], निर्युक्ति: [ ३९ ], भाष्यं [-] वि० भा० गाथा [६०९,६०३,६०४], मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
Jan Education International
स्मेति ख्यापनार्थः, इदं चानन्तरोदितविशेषणं क्षेत्रमेकदिकमपि भवति तत आह- सर्वदिकं, अनेन सूची भ्रमणप्रमितत्वं क्षेत्रस्य सूचयति, परमश्चासाववधिश्च परमावधिः, एतावद् अनन्तरोदितं सर्वबहनलसूचीपरिक्षेपप्रमितं क्षेत्रमङ्गीकृत्य 'निर्दिष्टः' | प्रतिपादितो गणधरादिभिः क्षेत्रनिर्दिष्टः किमुक्तं भवति ? - सर्ववह्नग्निजीवा निरन्तरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिकं भृतवन्तः एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेद सामर्थ्ययुक्तः परमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः । अयमिह सम्प्रदायः - सर्ववह्नग्निजीवादयः प्रायोऽजितस्वामितीर्थकाले प्राप्यन्ते, तदारम्भकमनुष्य बाहुल्यभावात्, सूक्ष्माश्चोत्कृष्टपदवर्त्तिनः तत्रैव विवक्ष्यते, ततश्च ते सर्वबहवोऽनलजीवा भवन्ति, तेषां खबुद्ध्या षोढा अवस्थानं | कल्प्यते - एकैकक्षेत्र प्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घन इति प्रथमं स एव घनो जीवैः स्वावगाहनाभिरिति द्वितीयं, एवं प्रतरोऽपि द्विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पश्च प्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात् षष्ठस्तु प्रकारः सूत्रादेशः, उतं च- " एकेकागासपएस जीवरयणा य सावगाहे य । चउरंस घणं पयरं सेढी छट्टो सुयादेसो ॥१॥” (वि.६०१) ततश्चासौ श्रेणिः स्वावगाहनासंस्थापितसकलानलजीवावलिरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते सा च भ्राम्यमाणा असलेयान् लोकमात्रान् क्षेत्रविभागान् अलोके प्राप्नोति, एतावत्क्षेत्रमवधिरुत्कृष्टः, उक्तं च-नियगावगाहणागणिजीवसरीरावली भमंतेण । भामिज्जह ओहिनाणीदेहपजततो सा य ॥ १ ॥ अइगंतूणमलोगे लोगागासप्पमाणमेत्ताई। ठाइ असंखेज्जाई इदमोहीखेत्तमुक्कीस ॥ २ ॥ (वि. ६०३ - ६०४ ) ” इदं च सामर्थ्य मात्रमुपवर्च्चते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावताऽलोके तन्न विद्यते, अलोके रूपिद्रव्याणामसंभवात्, रूपिन्द्र
Far Pavoce & Personal Use Ony
122~
www.janelibrary.org