________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [२९], भाष्यं H विभागाथा [५८४], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
-
दीप अनुक्रम
उस द्विविधा-आगमतो नोमागमतच, तत्रागमतोऽवधिपदार्थज्ञस्तत्र चानुपयुक्ता, अनुपयोगो द्रव्य'मिति वचनात्, नोमाग-
मतसिविधस्तद्यथा-शशरीरद्रव्यावधिः भव्यशरीरद्रव्यावधिः शरीरभव्यशरीरव्यतिरिक्तद्रव्यावधिश्च, तत्र शरीरभन्यशरीरे प्रतीते, तृतीयस्तु साक्षात्सूत्रेणैवोपात्तः 'दविए' इति द्रव्यावधिव्यालम्बन इत्यर्थः, अथवा सूत्रे प्रथमान्तस्याप्येकारान्तता, जिनवचनस्य च सर्वस्याप्यर्धमागधभाषात्वात् , ततो द्रव्यमेवावधिव्यावधिः, कारणं द्रव्यमिति भावः, यदिवा उत्पद्यमानस्वावधेर्यदुपकारकं शरीरादि तदवधिकारणत्वात् द्रव्यावधिः, माह च-दबोही उपजा जत्थ ततो जंच पासए तेण । जंवोक्यारिदवं देहाइ तदुभवे होइ ॥१॥ (वि.५८४) तथा क्षेत्रेऽवधि क्षेत्रावधिः, किमुक्तं भवति ।-पत्र क्षेत्रेऽवस्थितस्यावधिरुत्पद्यते यत्र वा क्षेत्रेऽवधिः प्रज्ञापकेन प्रकाश्यते यत्र वा क्षेत्रे स्वयोग्यानि द्रव्याण्यवधिः परिच्छिनत्ति स क्षेत्रस्यापारत्वेन प्राधान्यविवक्षया क्षेत्रे व्यपदिश्यते इति क्षेत्रेऽवधिः क्षेत्रावधिरित्युच्यते, एवं यत्र प्रथमपौरुष्यादी कालेऽवधिरुत्पद्यते यत्र वा प्रज्ञापकेन प्ररूप्यते यस्मिन् वा काले स्वयोग्यानि द्रव्याणि परिच्छिनत्ति स कारस्त प्राधान्यविवक्षया कालेन व्यपदिश्यते, कालेनावधिः कालावधिः, अथ किमिति क्षेत्रकालावस्थितानि द्रव्याणि पश्यत्यसावित्युच्यते, न पुनः क्षेत्रकालावेव साक्षात्पश्यतीति !, उच्यते, क्षेत्रकालयोरमूर्त्तत्वेन तदविषयत्वाद्, आह च भाष्यकृत-"खेते जरघुप्पज्जा कहिजए पेच्छए व दवाई।एवं चेव य काले नउ पेच्छइ खेत्तकाले से ॥१॥"( वि.५८५) तथा भवन्ति तत्तत्कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवः-नारकादिलक्षणः, 'तुदादिभ्यो नका'वित्यधिकारे 'अकिती चेति अप्रत्ययः तस्मिन् भवे उत्पद्यते वर्चते प्रेक्षते का योऽवधिः स भवावधिः, भावः-क्षायोपशमिकः द्रव्यपर्यायो वा तस्मिन्नवधि -
18695%
and
remona
viewsanelitary.com
~118~