________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: २१,२२], भाष्यं H. वि०भा०गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम
क्षेत्रं कालतः सर्वे कालं भावतः सर्वान् भावान् । इदं च श्रुतज्ञानं सर्वातिशयरलकल्प प्रायो गुर्वधीनं च ततो | विनेयजनानुग्रहार्थ यो यथा चास्य लाभतं तथाऽस्य दर्शयति
"आगमसत्थग्गहणं जं बुद्धिगुणेहिं अट्ठहिं दिहूँ । ति सुयणाणलंभं तं पुत्वविसारया धीरा ॥२१॥" । आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मयोदया वा यथावस्थितप्ररूपणया गम्यते-परिच्छिद्यते अर्था येनस आगमः, 'मुनाम्नीतिकरणे घप्रत्ययः, स चैव्युत्पत्त्या अवधिकेवलादिरूपोऽपि प्रामोति ततस्तद्व्यवच्छेदार्थ विशेषणान्तरमाह-शास्त्रेति शिष्यतेऽनेनेति शास्त्रं आगमश्च तत् शास्त्रं च आगमशास्त्र, आगमग्रहणेन षष्टितत्रादिकुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावेनानागमत्वात् , आगमशास्त्रस्य ग्रहणमागमशास्त्रग्रहणं, यद् बुद्धिगुणैः । वक्ष्यमाणः करणभूतैरटभिदृष्टं तदेव ग्रहणं श्रुतज्ञानस्य लाभ ब्रुवते, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा-विपश्चित:, धीराः-व्रतपाल ने स्थिराः, किमुक्कं भवति !-यदेव जिनप्रणीतवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेषमिति ॥ बुद्धिगुणैरष्टभिरित्युक्तमतस्तानेव बुद्धिगुणानाह
"सुस्ससइ पडिपुच्छइ सुइ गिण्हइ य ईहए वावि । तत्तो अपोहए वा धारेइ करेइ वा सम्मं ॥ २२॥" | पूर्व तावत् शुश्रूषते-विनययुक्तो गुरुवदनारविन्दान्निर्गच्छद्वचनं श्रोतुमिच्छति, ततः प्रतिपृच्छति यत्र शङ्कितं भवति तत्र भूयोऽपि बिनयनम्रतया वचसा गुरुमनः प्रहादयन् पृच्छति, पृष्टे च सति यद्गुरुः कथयति तत् सम्यक्-व्याक्षेपपरि. |हारेण सावधानः शृणोति, श्रुत्वा चार्थरूपतया गृह्णाति, गृहीत्वा च ईहते-पूर्वापराविरोधेन पालोचयति, चशब्दः समु-15
ForFive Persanamory
ansliterary.com
~112~