________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
उपोद्घाते
॥ ४९ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ २३, २४ ], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
चयार्थः, अपिशब्दः पर्यालोचयन् किञ्चित्स्वबुद्ध्याऽप्युत्प्रेक्षते इति सूचनार्थः, ततः-- पर्यालोचनानन्तरमपोहते एव| मेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तमर्थ निश्चितं स्वचेतसि विस्मृत्यभावार्थ सम्यक् धारयति, करोति च सम्यक् यथोक्तमनुष्ठानं, यथोक्तानुष्ठानमपि श्रुतज्ञानप्राप्तिहेतु:, तदावरण कर्मक्षयोपशमनिमित्तत्वात्, अथवा यद् यद् आज्ञापयति गुरुस्तत्तत्सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते, पूर्वसन्दिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः सम्यक् शृणोति शेषं पूर्ववत् ॥ तदेवं व्याख्याता गुणाः, सम्प्रति यत् शुश्रूपते इत्युक्तं तत्र श्रवणविधिमाह -
"मूयं हुंकारं वा वाढकार पडिपुच्छ वीमंसा । तत्तो पसंग पारायणं च परिणिट्ट ससमए ॥ २३ ॥” 'मूक' मिति प्रथमतो मूकं शृणुयात्, किमुक्तं भवति १ - प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत, ततो द्वितीये श्रवणे हुङ्कारं दद्यात्, वन्दनं कुर्यादित्यर्थः, तृतीये वाढकारं कुर्यात्, बाढं- एवमेतत् नान्यथेति प्रशंसेदित्यर्थः, चतुर्थे श्रवणे गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतत् इति पञ्चमे मीमांसां प्रमाणजिज्ञासां कुर्यादिति भावः, षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गं पारगमनं चास्य भवति, ततो सहमे श्रवणे परिनिष्ठो, गुरुवदनुभाषते इत्यर्थः ॥ एवं तावत् श्रवणविधिरुक्तः, सम्प्रति व्याख्यानविधिमभिधित्सुराह-"सुत्तस्थो खलु पढमो बीओ निज्जुत्तिमीसितो भणितो । तइओ य निरवसेसो एस विही होइ अणुओगे २४ " प्रथमोऽनुयोगः सूत्रार्थ :- सूत्रार्थप्रतिपादनपरः, खलु एवकारार्थः स चावधारणे, ततोऽयमर्थ:--- गुरुणा प्रथमोऽनु
Jan Education International
For Peace & Personal Use Only
~113~
बुद्धिगुणाः अनुयोग
विधिः
२१-२४
॥ ४९ ॥
www.janlibrary.org