________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ १६, १७], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
चउबिहं नेवभेदतो तेण जं तदुवडतो । आएसेणं सवं दवाइ घरविहं मुणइ ॥ १ ॥ आएसोत्ति पगारो ओघादेसेण | सङ्घदवाई | धम्मत्थियाइयाई जाणइ न उ सहभेदेणं ॥ २ ॥ ( वि०४०२-४०३ ) एवं सामान्यादेशेन मतिज्ञानी क्षेत्रतो लोकालोकं जानाति कालतः सर्वकालं, इह यद्यपि क्षेत्रकालौ सामान्येन द्रव्यान्तर्गतौ तथापि निवासमात्रपर्याय मधिकृत्य | क्षेत्रं वर्त्तनादिरूपतामधिकृत्य कालो भेदेन रूढ इति पृथगुपादानम्, भावत औदयिकादीन् पञ्च भावान्, उक्तं च- "खेत्तं लोगालोगं, कालं सबद्धमहव तिविपि । पंचोदइयाईए भावे जं नेयमेवइयं ॥ १॥" (वि०४०४) तदेवमुक्तं मतिज्ञानम्, साम्प्रतमवसरमा श्रुतज्ञानमतस्तत्प्रतिपिपादयिषुरिदमाह -
सुयणाणे पयडीओ विस्थरतो आवि वोच्छामि ॥ १६ ॥
श्रुतज्ञानं - पूर्वव्युत्पादितशब्दं तस्मिन् प्रकृतयो- भेदास्ताः 'विस्तरतः' प्रपञ्चेन चशब्दात् सङ्क्षेपतश्च, अपिशब्दः | सम्भावने सचैतत् सम्भावयति - तदनन्तरं - अवधिप्रकृतीश्च वक्ष्ये - अभिधास्ये । सम्प्रति ता एवं श्रुतप्रकृतीदर्शयति---- पत्तेयमक्खराई अक्खरसंजोग जन्तिया लोए । एवइया सुयनाणे पयडीओ होंति नायवा ॥ १७ ॥ एकमेकं प्रति प्रत्येकमक्षराणि - अकारादीनि अनेकानेकभेदानि, तद्यथा-अकारः सानुनासिको निरनुनासिकश, पुनरेकैकस्त्रिधा - उदात्तोऽनुदात्तः स्वरितश्चेति षोढा अकारः, एवमाकारः प्लुतञ्चत्येष्टादशावर्णभेदाः, एवमिवर्णादिष्वपि यथासम्भवं भेदजातमभिधानीयं तथा अक्षराणां संयोगा अक्षरसंयोगा व्यादयो यावन्तो लोके यथा घटः पट इत्यादि व्याघ्रः स्त्री इत्यादि, एते चानन्ताः, ननु सङ्ख्येयानि अकारादीन्यक्षराणि ततस्तेषां संयोगा अपि सङ्ख्येया एव घटन्ते कथमनन्ता इति ?,
Jan Education Inten
... अथ श्रुतज्ञानस्य प्रकृतयः वर्णनं
For Peace & Personal Use Only
~104~