________________
भरद्वाजकाण्डम्.
हाजा इत्येतेषामविवाहः । तेषा पञ्चार्षेयः प्रवरो भवति । आङ्गिरसबार्हस्पत्य भारद्वाजवान्दनमातवचसेति । अङ्गिरोवबृहस्पतिवद्भरद्वाजवद्वन्दनवन्मतवचोवत् ।
इति कात्यायनलागायुक्तं भरद्वाजगोत्रकाण्डमुदाहृतम् ॥
अथाश्वलायनोक्तं भरद्वाजगोत्रकाण्डमुदाहरिष्यामः ॥ आहाश्व
लायनः
भरद्वाजाग्निवेश्यानामाङ्गिरसबार्हस्पत्य भारद्वाजेति । मुगलानामाङ्गिरसभार्याश्वमौद्गल्येति । तार्क्ष्य हैके ब्रुवतेऽतीत्याङ्गिरसं तार्क्ष्य भार्याश्वमौ - गल्येति । विष्णुवृद्धानामाङ्गिरस पौरुकुत्सत्रासदस्यवे । गर्गाणामाङ्गिरसबार्हस्पत्य भारद्वाजगार्ग्यशैन्येति । आङ्गिरससैन्यगाग्र्येति वा ॥ हरितकुत्सपिङ्गशङ्खदर्भभैमगवानामाङ्गिरसाम्बरीषयौवनाश्वेति । मान्धातारं हैके ब्रुवतेऽतीत्याङ्गिरसं मान्धात्राम्बरीपयौवनाश्वैति । सङ्घतिपूतिमाषतण्डिशाम्बुशैवगवानामाङ्गिरसगौरिवीतसाङ्कृत्येति । शक्तिर्वा मूलं शाक्त्यगौरिवीतसाङ्कृत्येति ॥ क
*भरद्वाजाः काता:... .भार्म्यश्वमौद्गल्येति...आङ्गिरसगार्ग्य शन्येति वा.