SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 33 प्रवरमञ्जरी. ण्वानामाङ्गिरसाजमीढकाण्वेति । घोरमुहैके ब्रुवते अवकृष्याजमीडमाङ्गिरसघौरकाण्वेति । कपीनामाङ्गिरसामहय्यवौरुक्षयसेति । अथ य एते द्विप्रवचना यथैतच्छौङ्गशैशिरयो भरद्वाजाश्शौङ्गाः कतारशैशिरयस्तेषामुभयतः प्रवृणीतैकमितरतो द्वावितरतः द्वौ वेतरस्त्रीनितरतो न हि चतुर्णी प्रवरोस्ति न पञ्चानामतिप्रवरणम् | आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेति ॥ || इत्याश्वलायनोक्तं भरद्वाजगोत्रकाण्डमुदाहृतम् ॥ अथ मत्स्यपुराणोक्तं त्रिविधमङ्गिरसां गोत्रप्रवरकाण्डमुदाहरि ष्यामः मत्स्य उवाच — मरीचितनया राजन्त्सुरूपा नाम विश्रुता । भार्या साऽङ्गिरसो देवास्तस्याः पुत्रा दश स्मृताः॥ आत्मा ह्यायुर्मनो दक्षो दमः प्राणस्तथैव च । हविष्मांश्च गविष्ठश्च ऋतुस्सत्यश्च ते दश ॥ इत्येते ऽङ्गिरसो नाम देवा वै सामगायिनः । सुरूपा जनयामास ऋषीन्त्सर्वेश्वरानिमान् ॥ 1 देवी तस्याः. " हविष्मान्सहविष्यश्च.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy