SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ गौतमकाण्डम्. कारेणपालयो वास्तव्याश्वतीयाः पौञ्जिष्ठा औदजायना मान्धुक्षरा अञ्जगन्ध* इत्येते कारेणपालयो गौतमास्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसगौतमकारेणपालेति होता । कारेणपालवद्गौतमवदङ्गिरोवदित्यध्वर्युः । गौतमानां सर्वे - षामविवाहः ॥ इति महाप्रवरे गौतमगोत्रकाण्डे षष्ठोध्यायः इति बोधायनोक्तं गौतमगोत्रकाण्डं समाप्तम्. ' अथापस्तम्बाद्युक्तं गौतमगोत्रप्रवरकाण्डमुदाहरिष्यामः -- अथाङ्गिरस अयास्या गौतमास्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसायास्यगौतमेति होता । गौतमवदयास्यवदङ्गिरोवदित्यध्वर्युः । अथौथ्या गौतमास्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसौचथ्यगौतमेति । गौतमवदुचथ्यवदङ्गिरोवदिति । अथौ - शिजा गौतमास्तेषां त्र्यार्षेयः प्रवरो भवति । आङ्गिरसौशिजकाक्षीवतेति । कक्षीवद्वदुशिजवदङ्गिरोवदिति + । अथ वामदेव गौतमास्तेषां त्र्यार्षेयः । *श्वेदीयाः पौजिष्ट्रय औदुञ्जायना औलूक्या राजगन्धयः. †अथ बृहदुक्था गौतमास्तेषां त्रयार्षेय आङ्गिरसबार्हदुक्थगौतमेति गौतमवहदुक्थवदङ्गिरोवदिति इति वाक्यमापस्तम्बसूत्रे दृश्यमानमत्र प्रवरमञ्जरीकोशे - नोपलभ्यते.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy