SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ६ प्रवरमञ्जरी. र्णमासयोरेवार्षेयवरणविधिपरं वाजसनेयिब्राह्मणं - " अथार्षेयं प्रवृणीत ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च निवेदयत्ययं महावीर्यो यो यज्ञं प्रापदिति तस्मादार्षेयं प्रवृणीते परस्तादर्वाक् प्रवृणीते परस्ताद्धय • र्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उच्चैवेनं निह्नुत इदं हि स पितैवाग्रेऽथ पुत्रोथ पौत्रस्तस्मात्परस्तादर्वाक्प्रवृणीते " इति । तथाऽन्यत्रापि प्रतिशाखमुदाहर्तव्यम् । तथा गोत्रसम्बद्धान्यपि कानि चिदङ्गानि विहितानि यथा - " " त्वं वरुण ं इति वसिष्ठराजन्यानां परिधानीया 'आजुहोत । इतीतरेषां गोत्राणाम् " इति । तथा 'नाराशंसो द्वितीयः प्रयाजो वासिष्ठशुनकानां तनूनपादितरेषां गोत्राणाम्' इति । तथा ' वासिष्ठो ब्रह्मा ज्योतिष्टोमे' इति । तथा 'भृगूणां त्वा देवानाम्' इति भृगूणां यथर्याधानं विहितं, 'अङ्गिरसां त्वा देवानाम् ' t इत्यङ्गिरसां यथधानमिति । तथा 'जमदग्रीनां पञ्चावत्तमन्येषां गोत्राणां चतुरवत्तम्' इति । तथा राजसूये 'भार्गवो होता भवति' इति । तथा सोमे 'आत्रेयाय प्रथमाय हिरण्यं ददाति द्वितीयाय तृतीयाय च' इत्यादीनि तत्रतत्रोदाहर्तव्यानि । तथा स्मृतिकारैरपि सर्वैरकृताधानानामिव पतितानामिव चाकृतविवाहानां पुंसां कर्माधिकारानीतां मत्वा विवाहाविवाह गोत्रप्रवरोपाधिकावेव विहितौ । यथाsse याज्ञवल्क्यः अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् । उद्वहेत्. इति । तत्रासमानार्षजा असमानप्रवरपुरुषजा, असमान गोत्रजा भिनगोत्र पुरुषजेत्यर्थः 1 आहापस्तम्बः- -" सगोत्राय दुहितरं न *शतपथब्रा २-४-३. +तै. बा. १-१-४. --- + 'तै,बा.३-५-२. § तै.सं. १-८-१८.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy