SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ महाप्रवराध्यायः तदनन्तरं वैश्यानां क्षत्रियवत् आत्मीयप्रवरः पुरोहितप्रवरश्रोपदिष्टः ॥ तदनन्तरं सार्ववणिकमानव प्रवरोपदेशपराणि सूत्रकाण्डान्युपदिष्टानि । तेषु च त्रयाणां वर्णानामविशेषेणैकार्षेयो मानवः प्रवर उक्तः ॥ सर्वान्ते च समानगोत्र समानप्रवरादियाथार्थ्याविदां प्रवराध्यायाध्ययनस्य च ब्रह्मविदां वेदाध्ययनस्येव ब्रह्मलोकादिफलमा - प्त्युपदेशपराणि शास्त्रसमाप्तिसूत्रकाण्डान्युपदिष्टानि । तेषु चोपदिष्टेषु सत्सु पर्यवसिताः प्रवराध्यायाः ॥ अस्यां च काण्डानुक्रमण्यां परिगणितेषु गणेष्वेकैकस्मिन् गणे यावन्ति गोत्राणि यन्नामकानि यत्क्रमकानि चान्तर्भवन्ति विद्यन्ते तानि सर्वाणि सूत्रपाठक्रमानुसारेणैव परिगणितानि ज्ञातव्यानीति । तथा प्रवरसङ्ख्या पञ्चार्षेयत्र्यार्षेयद्वयार्षेयैकार्षेयविभागे सूत्रपाठक्रमानुसारेणैव ज्ञातव्या । इति वक्ष्यमाणं सर्वमनुक्रान्तं जिज्ञासानिवृत्तये सुखग्रहणाय च ॥ तत्र प्रथमं तावद्बोधायनीयमहाप्रवराध्यायोक्तसूत्रकाण्डान्येव तत्रतत्र प्रथमाध्यायपरिसमाप्तेरुदाहृत्योदाहृत्य व्याख्याय पश्चादापस्तम्बाद्युक्तसूत्रकाण्डान्युदाहृत्य व्याख्यास्यामः । तत्र श्लोकःसर्वेष्वपि प्रवरशास्त्रगणेष्वतीव श्रीमन्महाप्रवरशास्त्रमिति प्रसिद्धम् । बोधायनीयमिति तत्कृतसूत्रगोत्रकाण्डान्यहं प्रथमतस्सकलानि वक्ष्ये ॥ अथातः प्रवरान्व्याख्यास्यामः ॥ " बन्धोरेव नैत्यथो संतत्यै परस्तादर्वाचो वृणीते तस्मास्परस्तादर्वाञ्चो मनुष्यान्पितरोनु प्रपिपते " इति । तथा दर्शपू - *तै. सं. २-५-८.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy