________________
महाप्रवराध्यायः.
प्रयच्छेत्"* इति । आह गौतमः “ असमानप्रवरैर्विवाहः "+
इति । तथा सगोत्रागमनं गुरुतल्पसमं मत्वा गौतम एवाह" सखिसयोनिसगोत्रासु स्नुषायां गवि च गुरुतल्पसमं गमनम् "+ इति । आह बोधायनः - " सगोत्रां गत्वा चान्द्रायणं कुर्यात् " इति । आह यमः -
-
:
आरूढपतितापत्यं ब्राह्मण्यां यश्च शूद्रजः । सगोत्रोढासुतश्चैव चाण्डालास्त्रय इरिताः ॥ इति । तथा स्मृत्यन्तरे
आरूढपतितापत्यं ब्राह्मण्यां यश्च शूद्रजः । तावुभौ विद्धि चाण्डालौ सगोत्राद्यश्च जायते ॥ इति । तथा
७
मातुलस्य सुतामूढा मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत् ॥
इति । तथा श्राद्धे चाहापस्तम्बः -- “ योनि गोत्रमन्त्रान्तेवास्य सम्बन्धान्भोजयेत्" इत्येवमादीनि स्मृतिवाक्यानि तत्रतत्र द्रष्टव्यानि । यस्मादेतानि पूर्वोक्तान्यङ्गानि विवाहादीनि च कर्माणि गोत्र - प्रवरतत्त्वज्ञानायत्तानि तदभावे च य[त ]स्माद्गुरुतल्पदोषचाण्डालेत्यादि • दोषप्रसक्त्या ब्राह्मण्यहानिप्रसङ्गात् मूलोच्छेदप्रसङ्गः ॥
गोत्राणां च कोटिस यात्रयपरिमितत्वाद्रूपांसूनां दिवि तारकाणामिव च दुर्ज्ञेयतां सङ्ख्यानिर्देशेन बोधायनो दर्शयतिगोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥
इति । अत्र सहस्त्राणि प्रयुतान्यर्बुदानीति तिसृषु संख्यासु बहुवचनप्रयोगाद्गोत्राणां तिस्रः कोट्यः सम्पद्यन्ते । तस्मात्पूर्ववृत्तात्क -
*धर्म. २-२-१५,२ +धर्म, ४-२. २३-१२.
गृह्य, २१-२.