________________
गोत्रप्रवरनिर्णयः. वरैर्विवाहः” इति समानप्रवरविवाहः पर्युदस्तः । याज्ञवल्क्यस्मृतौ
अरोगिणी भ्रातृमती असमानार्षगोत्रजाम् । इत्यादिषु समानगोत्रप्रवरवधूविवाहस्य निषिद्धत्वात् अज्ञात्वा तादृशीं ऊदा तद्दोषशान्तये वैदिककर्मयोग्यत्वार्थ च प्राजापत्यव्रतं चरेत् ॥ मोहाद्गत्वा प्रतिगमं चरेच्चान्द्रायणं व्रतम् । गर्भश्चेत्काश्यपोऽयं स्यात् भारद्वाजोऽथवा भवेत् ॥
समानार्षगोत्रजामूढां मोहाद्गच्छेद्यावद्वारं गमनं तावञ्चान्द्रायणव्रतं चरेत् । तत्र यदि गर्भस्स्यात् तत्रोत्पन्नः काश्यपगोत्रो वा भारद्वाजगोत्रो वा भवेत् येन पुत्रः [येनतं] काश्यपो वा भारद्वाजो वा पुत्रत्वेन स्वीकुर्यात् । नो चेत् काश्यपो वा भारद्वाजो वा संस्कुर्यात् ॥ साऽपि भार्या प्रतिगमं चरेच्चान्द्रायणं व्रतम् । ब्राह्मणी चेन्मातृवत्तां बिभृयान्मातृहाऽन्यथा ॥९॥ सगोत्रप्रवरां ज्ञात्वा गच्छंस्तु गुरुतल्पगः।। तत्र चण्डालमुत्पाद्य ब्राह्मण्यादेव हीयते ॥ ९० ॥
समानप्रवरां ज्ञात्वा गच्छेच्चद्गुरुतल्पव्रतं चरेत । तत्र यदि गर्भोत्पत्तिस्स्यात् तदा स ब्राह्मण्याद्धीयत एव तत्रोत्पन्नः चण्डालो भवति । तं चण्डालेषु निक्षिपेदित्यर्थः । तथा च यमः
आरूढपतितापत्यं ब्राह्मण्यां यस्तु शूद्रजः । सगोत्रोढासुतश्चैव चण्डालास्त्रय ईरिताः ॥