________________
अभिनवमाधवीयः.
३५३ सगोत्रप्रवरां कन्यामूढां ज्ञात्वोपगम्य च ।
तस्यां चण्डालमुत्पाद्य ब्राह्मण्यादेव हीयते ॥ इति । अस्यार्थः-यस्तु संन्यासी सन् स्त्रियं भोगार्थ गच्छात स आरूढपतितः, तद्वोर्यादुत्पन्न एकः । ब्राह्मणस्त्रियां शूद्रादुत्पन्न एकः । सगोत्रप्रवरां ज्ञात्वा विवाहितायां स्त्रियामुत्पन्न एकः । एते त्रयः चण्डालाः ईरिताः ते चण्डालेषु योज्या इत्यर्थः । इतरत् स्पष्टम् । तथा च स्मृत्यन्तरम् -
कन्यामूढां सगोत्रप्रवरपुरुषजां मातृवदोषदण्डप्रायश्चित्तादिभाक्स्याजनयति च सुतं जातिचण्डालमस्याम्॥ अज्ञात्वोहोपगम्य प्रतिगमनमुपेत्यैन्दवं सा च भार्या
गर्भश्चेत्स्यान्न दुष्टस्स मुनिभिरुदितः काश्यपो गोत्रविद्भिः॥ इति तनूनपानराशंसयागोडाहादिकर्म च । याज्यत्वादीनि सिद्धयन्ति गोत्रप्रवरनिर्णयात्॥९१॥ महान्यत्नस्ततः कार्यो गोत्रप्रवरनिर्णये।
गोत्रप्रयरनिर्णये जाते तनूनपाद्याजिनः नराशंसयाजिन इति भेदः सुखेन ज्ञेयः ; उद्वाहादिकर्म च ज्ञयं; याज्यत्वादि च सूखेन ज्ञेयं भवति । बोधायनसूत्रे-“नाराशंसान् व्याख्यास्यामः आवेयवाध्यश्ववाधूलवसिष्ठकण्वसंकृतियस्कशुनकराजन्यमौद्गल्या इत्येते नाराशंसास्तनूनपादन्येषां गोत्राणां” इत्युक्तेः आत्रेयादिमौद्गल्यान्ताः नराशंसयाजिनः इतरगोत्रजाः तनूनपाद्याजिनः वत्सबिदऋष्टिषेणाः पञ्चावत्तिनः इतरे चतुरवत्तिनः । एतद्भेदाज्ञाने श्रौतस्मादि कर्म न सिध्यति । समानगोत्रप्रवराज्ञाने उदाहकर्म न सिध्यति । याज्यत्वादि च याज्यगोत्रप्रवराज्ञाने न
*पुरुषोत्तमप्रवरमार्यामुपक्रमस्थमिदं पद्यम्.