________________
अभिनवमाधवीय.
३५१
कन्याप्रदो ब्रह्मलोकं रौरवं तु रजस्वलाम् । प्राप्ते तु द्वादशे वर्षे रजः स्त्रीणां प्रवर्तते ॥ ८ ॥ दृष्टे तु कन्यका दुष्टा जनकः पतितः स्मृतः।। आरभ्य जन्मवर्षात्प्राग्रजोदर्शात्तु कन्यका ॥८१ ॥ विवाहार्हा भवेदूर्ध्वं गान्धर्वैकाधिकारिणी। स्ववर्षावित्रिपञ्चाब्दहीनां कन्यां समुद्हेत् ॥ २ ॥ स्वदैर्ध्यादधिकां नैव नातिकुब्जां कदाचन । स तु यद्यन्यजातीयः पतितः क्लोब एव वा ॥३॥ विकर्मस्थः सगोत्रो वा व्यङ्गो दीर्घामयोऽपि वा । दत्ताऽपि देया साऽन्यस्मै सप्रावरणभूषणा ॥८॥ वाचा दत्ता मनोदत्ता दत्ता यादकेन वा । दुष्टं त्यक्त्वा गुणाढ्याय पुनर्देया तु कन्यका ॥५॥ नोदकेन न वाचा वा कन्यायाः पतिरिष्यते । पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥८६॥ सगोत्रप्रवराया हि निषिद्धं पाणिपीडनम् । अज्ञानादथवा मोहात् प्राजापत्यव्रतं चरेत् ॥७॥
आपस्तम्बसूत्रे-“सगोत्राय दुहितरं न प्रयच्छेत् ” इति सगोत्रकन्याविवाहो निषिद्धः । आश्वलायनसूत्रे-“असमानप्र
45