SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३५० गोत्रप्रवरनिर्णयः. जनं मातुलपितृष्वसृकन्यापरिणयनमिति अथोत्तरतः ऊर्णाविक्रयः शीधुपानं उभयतोदद्भिर्व्यवहारः आयुधीयकं समुद्रयानमिति इतरदितरस्मिन् कुर्वन् दुष्यति” इति विद्यमानत्वात्तद्दक्षिणदेशीयानुत्तरतो विसृजेत् उत्तरदेशीयान् दक्षिणतो विसृजेत् । अतः पराशरमाधवीयादिस्मृतिव्याख्यानेषु दाक्षिणात्यशिष्टाः स्मृतिमन्त्रार्थवादवलादक्षिणदेशे मातुलकन्यापरिणयनं पितृवसृदुहितपरिणयनं च कार्यमिति स्थापयामासुः । तत्र — आयाहीन्द्र पथिभिरीलितेभिः' इति मन्त्रेण मातुलपितृष्वसृदुहितृपरिणयनं कार्यमिति प्रतीयते॥ बुधैर्वधूवरौ भिन्नगोत्रप्रवरजाविति ॥७६ ॥ निर्णीतौ चेहदेल्लग्नं दैवज्ञो न ततोऽन्यथा । ___वरो वधूश्च भिन्नगोत्रप्रवरजाविति बुधैनिर्णीती चेदैवज्ञो लग्नं वदेत् अन्यथा न वदेत् ॥ युग्मेऽब्दे जन्मतस्त्रीणांप्रीतिदंपाणिपीडनम्॥७७॥ तद्वत्पुंसामयुग्मे ऽब्दे व्यत्यये नाशनं तयोः। वध्वाः जन्मप्रभृति समेऽब्दे विवाहः प्रशस्तः । मुसो जन्मतो विषमे वर्षे प्रशस्तः । वध्वा विषमेऽब्दे पुंसो युग्मे च न शुभदः॥ अष्टवर्षा भवेत्कन्या नववर्षा तु रोहिणी ॥ ७ ॥ दशवर्षा भवेद्गौरी अत ऊर्ध्वं रजस्वला । गौरीप्रदो व्रजेत्स्वर्गं वैकुण्ठं रोहिणीप्रदः ॥ ७९ ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy