________________
गोत्रप्रवरनिर्णयः, ___आङ्गिरसाः आजमीढाः कण्वाः इत्यमी कण्वाः इत्युच्यन्ते । एषां परस्परं विवाहो न । समानप्रवरत्वात् ॥
अथ विरूपगणः-- आङ्गिरसा विरूपाश्च तथा राथीतरा अपि । पृषदश्वा आष्टदंष्टाः तथैते पञ्च गोत्रजाः ॥४९॥ मिथो विवाहं नार्हन्ति समानप्रवरा यतः ।
आङ्गिरसप्रभृतयः पञ्च परस्परं विवाहास् न । समानप्रवरत्वात् ॥
अथ मौद्गलगणः-- आङ्गिरसाश्चभायाश्च मौद्गलारुयक्षसंज्ञिकाः॥५०॥ मिथो विवाहं नार्हन्ति समानप्रवरा यतः। एते चत्वारो विवाहार्हा न भवन्ति । समानप्रवरत्वात् ॥
अथ विष्णुवृद्धगणःआङ्गिरसा विष्णुवृद्धाः भद्रणा मद्रणास्तथा ॥५१॥ त्रासदस्याः पौरुकुत्साः शठमर्षण एव च । औपमित्यौपगवयः सात्यकिर्बादरायणः ॥५२॥ सात्यकामा अरुणयो नितुन्दाश्च चतुर्दश । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥५३॥
आङ्गिरसाद्या नितुन्दान्ता विष्णुवृद्धाः । ते च परस्परं वि. वाहार्हा न भवन्ति । समानप्रवरत्वात् ॥
अथ विवाहार्दा गणाः कथ्यन्ते