SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ अभिनवमाधवीयः. ३३७ स्वतन्त्र पिगणस्य च स्वस्वं गणं हित्वा इतरेस्सह विवाहोऽस्ति । संकृतयो यामुष्यायणाः । कश्यपा वसिष्ठाश्च । अतः संकृतीनां वसिष्ठैः कश्यपैश्च विवाहो निषिद्धः । एवं सप्तदशाङ्गिरसस्सम्यग्विवेचिताः । गौतमगणास्सप्त । भरद्वाजगणास्त्र - यः । शुद्धाङ्गिरोगणास्सत एवं सप्तदशेत्यर्थः । तथा चापस्तम्बप्रयोगदीपिका गौतमाश्च भरद्वाजाः कपयो हरितास्तथा । कण्वो विरूपो मौद्गल्यो विष्णुवृद्धोऽष्टमोऽङ्गिराः ॥ आपस्तम्बमते गौतमा भरद्वाजाः कपयो हरिताः कण्वाः विरूपाः मौहल्याः विष्णुवृद्धाः इत्यङ्गिरोगणाः अष्ट । तत्र गौतमा भरद्वाजाः कपयश्च निरूपिताः ॥ अथ हरितगणः आङ्गिरसाश्च हरिता अम्बरीषास्ततः परम् । यौवनाश्वाश्च मान्धाता कुत्साः पैङ्गवास्त्वनन्तरम् ॥ शङ्का दर्भा हैमगवा एते च दश गोत्रजाः । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥४७॥ आङ्गिरसप्रभृतयो हैमगवान्ताः दश हरितगणाः । एषां परस्परं विवाहो न । समानप्रवरत्वात् । अत्र गोत्रशब्दः समानप्रवरवचनः । न तु गोत्रवचनः ॥ अथ कण्वगणः आङ्गिरसा आजमीढाः कण्वाश्चैव त्रयोऽप्यमी । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥४८॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy