________________
३३.६
गोत्रप्रवरनिर्णयः
विश्वामित्रा भरद्वाजा विवाह्यास्स्युः परस्परम् | कतशैशिरशुङ्गांश्च वर्जयित्वा समन्ततः ॥
अस्यार्थः - विश्वामित्रा भरद्वाजाश्च कतशैशिरशुङ्गान् वर्ज - यित्वा मिथो विवाह्याः । एते च भरद्वाजैस्सह न विवाह्नाः ॥
इति भरद्वाजकाण्ड:
अथ शुद्धाङ्गिरोगणाः कथ्यन्ते
शुद्धाङ्गिरोगणास्सप्त तत्र स्युर्विष्णुवृद्धजाः ॥४३॥
कण्वा रथीतराश्चैव हरिता मुला इति । पञ्च स्वस्वगणं हित्वा विवहेयुः परावरैः ॥ ४४ ॥ वसिष्ठान्कश्य पान्त्स्वीयान् विना संकृतयोऽन्वियुः । कपीनामुदितास्सप्त दशाङ्गिरस ईरिता:
॥४५॥
।
विष्णुवृद्धाः कण्वाः रथीतराः हरिताः मुद्गलाः संकृतयः कपय इति सप्त शुद्धाङ्गिरोगणाः । तत्र विष्णुवृद्धगणस्य आङ्गिरसत्रासदस्य पौरुकुत्सेति त्र्यार्षेयः प्रवरः । कण्वगणस्य आङ्गिरसाजमीढकाण्वेति त्र्यार्षेयः प्रवरः । रथीतरगणस्य आ ङ्गिरसबैरूपराथीतरेति आङ्गिरसवैरूपपार्षदश्वेति वा व्यार्षेयः प्र बरः । हरितगणस्य आङ्गिरसाम्बरीषयौवनाश्वति त्र्यार्षेयः प्र वरः । मुद्गलगणस्य आङ्गिरसभायश्वमौद्गल्येति त्र्यार्षेयः प्र वरः । संकृतिगणस्य आङ्गिरससाङ्कत्यगौरिवीतेति त्र्यार्षेयः प्रवरः । स्वतन्त्रकपिगणस्य आङ्गिरसामहीयौरुक्षय्येति व्यार्षेयः तत्र विष्णुवृद्धकण्वरथीतरहरितमुद्गलानां पञ्चानां
प्रवरः
1