________________
अभिनवमाधवीयः. ३३९ आजमीढा विरूपाश्च मुद्गला विष्णुवृद्धजाः।। एते चतुर्गणाः प्रोक्ताःविवाह्यास्स्युःपरस्परम्॥५४॥
स्वतन्त्रकपीनां भरद्वाजैस्सह विवाहोऽस्तीति निरूपितम् । आपस्तम्बसूत्रे हरितगणानन्तरं कुत्सस्य अभिहितत्वात् । कुत्सानन्तरं चतुर्णा गणानां सङ्ग्रहकारेणाभिधानं कृतम् । ततः स्वतन्त्रकपिगणः एकः हरितगणः कुत्सगणश्चत्येतद्गणत्रयं एको गणः । अजमीढगणः विरूपगणः मुद्गलगणः विष्णुद्धगणः चति षट् शुद्धाङ्गिरोगणाः । एतेषां षण्णां गणानां स्वस्वं गणं विहाय इतरैः पञ्चभिस्सह विवाह इष्टः ॥ मिथो विवाह्योऽष्टगणः आद्यमाङ्गिरसं विना ।
गौतमगणः भरद्वाजगणः स्वतन्त्रकपिगणः हरितगणः कण्वगणः विरूपगणः मुद्गलगणः विष्णुवृद्धगणश्चेत्येतेषामष्टानां स्वस्वं गणमाद्यमाङ्गिरसं विहाय इतरैस्सह विवाहोऽस्ति । अस्मिन्नर्थे प्रयोगपारिजातोक्तसम्मतिश्लोकः
गौतमादिगणा ह्यष्टौ यद्यप्यङ्गिरसो गणः । तथाऽप्येषां गणानां च विवाहः स्यात्परस्परम् ॥
इति । अस्यार्थः-गौतमादयोऽष्टौ गणाः अङ्गिरोगण एव । सर्वत्राङ्गिरसोऽनुवर्तनात् । तथाऽप्याद्यमाङ्गिरसं विना परस्परं विवाहोऽस्ति ॥ इति वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयाभिनव
माधवाचार्योद्धृतगोत्रप्रवरनिर्णये __ चतुर्थ प्रकरणम्.