________________
३३०
स्पष्टोऽर्थः ॥
गोत्रप्रवर निर्णयः.
स्पष्टोऽर्थः ॥
॥ इति चतुर्थो भृगुगणः ॥
अथ पञ्चमो भृगुगणः
भृगवो वैन्यसंज्ञाश्च पार्थिवाश्च त्रयोऽप्यमी । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥ ३३॥
॥ इति पञ्चमो भृगुगणः ॥
मिथो विवाह्याः पञ्चैते गणा आद्यं भृगुं विना । एते पञ्च भृगुगणाः आद्यं भृगुगणं विना मिथो विवाह्याः ॥ विश्वामित्रा जामदग्रया विवाह्याः स्युः परस्परम् ॥ देवरातान्वर्जयित्वेत्याहुर्धर्मप्रवर्तकाः ।
भृगुगणेषु पञ्चसु मध्ये आद्यं भृगुगणं जमदग्निगणं वर्ज - यित्वा इतरैश्चतुर्भिः भृगुगणैः विश्वामित्रगणानां परस्परं विवा - होऽस्ति देवरातान्वर्जयित्वा । देवरातस्य जमदग्निगणस्थऋचीकपुत्रत्वात् विश्वामित्रेण पुत्रत्वेन स्वोकृतत्वाच्च द्विगोत्रत्वम् । द्विगोत्राणां द्वयामुष्यायणप्रकरणे गोत्रद्वयेन सह मिथो विवाहस्य निषिद्धत्वात् । देवरातस्य द्विगोत्रत्वं द्विगोत्रत्वं शुनश्शेफोपाख्याने स्पष्टमभिहितम् ॥
इति वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयाभिनवमाधवाचार्यकृ तगोत्रप्रवर निर्णये द्वितीयं प्रकरणम् ॥
अथाङ्गिरस उच्यन्ते त्रिविधास्तत्र गौतमाः || ३५ ॥