SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ अभिनवमाधवीयः. ३३१ आयास्याश्च शरद्वन्तः कुमण्डाह्वास्ततः परम् । तथैव दीर्घतमसः ततः कारेणुपालयः ॥३६॥ वामदेवा औशनसा इत्येषां न मिथोऽन्वयः । अथ भृगुगणविवेचनानन्तरं त्रिविधा गौतमा भरद्वाजाश्शुद्धाङ्गिरस इति त्रिप्रकाराः आङ्गिरसा उच्यन्ते तत्र गौतमाः-आयास्याः शरद्वन्तः कौमण्डाभिधाः दीर्घतमसः कारेणुपालयः वामदेवा औशनसाः इति सप्तविधाः । तत्रायास्यगौतमानां आङ्गीरसायास्यगौतमेति व्यायप्रवरः । शरद्वद्गौतमानां आङ्गीरसशारद्वन्तगौतमेति व्यायप्रवरः । कुमण्डगौतमानामाङ्गिरसौचिथ्यकाक्षीवतगौतमकोमण्डोत पञ्चायः प्रवरः । दीर्घतमोगौतमानां आङ्गिरसौचिथ्यकाक्षीवतगौतमदैर्घतमसेति पश्चार्षेयप्रवरः । कारेणुपालगौतमानां आङ्गीरसगौतमकारेणुपालेति व्यायप्रवरः । वामदेवगौतमनां आनीरसवामदेवगौतमति व्यारेयः प्रवरः । औशनसगौतमानां आङ्गीरसौशनसगौतमेति व्यायः प्रवरः । एवं सप्तसु प्रवरेषु गोत्रकर्तुर्गौतमस्य अनुवर्तनात् 'एक एव ऋषिर्यावत्' इति परिभाषायां सम्याग्विवोचतत्वात् सप्तानामपि समानगोत्रत्वम् । पञ्चार्षयाणां व्यापैयाणां च सनिपाते एकत्र गौतमस्य इतरत्र अङ्गिरोगौतमयोरनुवृत्तिः । समानगोत्रप्रवरत्वं द्वयोः पञ्चार्षेयप्रवरत्वेऽपि अङ्गिरसौचथ्यकाक्षीवतेति त्रयाणामनुवृत्तेः समानप्रवरत्वं, पञ्चार्षेययोस्त्र्याययोर्वा सन्निपाते तु गोत्रकर्तुर्गीतमस्यानुवृत्तेश्च समानप्रवरत्वाद्गौतमानां परस्परमविवाहः । इतरैर्विवाहोऽस्त्येव । तथा चापस्तम्बः आङ्गिरसास्तथाऽऽयास्या औचथ्या औशिजास्तथा । काक्षीवता वामदेवा बृहदुक्थाश्च सप्त ते ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy