________________
अभिनवमाधवीयः.
भृगवो जामदग्नयाद्या नविवाद्याः प्रकीर्तिताः। अत्रोक्तानां मुनीनां जमदग्निगणत्वात्तत्रत्यैर्विवाहो न ॥
॥ इति प्रथमो भृगुगणः॥
अथ द्वितीयो भृगुगणःभृगवो वीतहव्याश्च यस्का वाधूलसंज्ञिकाः ॥२९॥ सावेदसा मौनमोकाः न विवाद्याश्च सप्त ते । एते रजतवाहैश्च न विवाह्याः कथंचन ॥३०॥ अत्रत्या भृगवो रजतवाहान्ता अष्टौ मुनयः मिथो न विवाह्याः॥
॥ इति द्वितीयो भृगुगणः ॥
अथ तृतीयो भृगुगणःभृगवो गृत्समदजाश्शुनकाश्च त्रयोऽप्यमी । मिथो विवाहं नार्हन्ति समानप्रवरा यतः॥३१॥ स्पष्टोऽर्थः॥
॥ इति तृतीयो भृगुगणः ॥
अथ चतुर्थों भृगुगणःभृगवश्चैव वाध्यश्वाः तथा मित्रयवस्त्रयः । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥३२॥