________________
गोत्रप्रवरनिर्णयः. कानां यस्कादिभिस्त्रिभिस्समानगोत्रता न च । यतो यस्कादीनां चतुर्णी गणानां स्वस्वं गणं विहायेतस्त्रिभिर्विवाहोऽस्ति । एषां चतुर्णा भृगुगणानां प्रागुक्तजमदग्निगणत्रयस्य च समानप्रवरत्वं न । भृगोर्गोत्रकर्तृत्वाभावात् समानगोत्रता न च । अत्र स्मृत्यर्थसारवचनमुदाहरणम् ॥
यस्का मित्रयवो वैन्याः शुनकाः प्रवरैक्यतः ।। . स्वस्वं हित्वा गणं सर्वे विवहेयुः परस्परम् ॥ इति बोधायनमते सप्त भृगवो व्याख्याताः । आपस्तम्बमते भृ. गुगणाः पञ्च । तत्र विशेषज्ञानार्थ सङ्ग्रहकारवचनान्युदाहृतानि
जामदग्नया वीतहव्यास्तथा गार्समदा अपि । वाध्रयश्वाश्चैव वैन्याश्च भृगोः पञ्च गणास्स्मृताः ॥ इति । तत्र जामदग्नयाः कथ्यन्ते---
अथ प्रथमो भृगुगणः-- भृगवो जामदग्नयाश्च वत्सश्रीवत्ससंज्ञिकाः । भार्गवाश्चयावनास्तद्वत् आप्तवानास्तथोर्वजाः॥२५ सावर्णयश्च जीवन्तिसंज्ञा जाबालयस्तथा । ऐतिशायननामानो वैरोहित्यास्तथैव च ॥ २६॥ अवट्या भण्डुजाश्चैव ततः प्राचीनयोगजाः ।
आर्टिषेणा देवराता अनूपाश्च सगोत्रजाः ॥ २७॥ मिथो विवाहं नाहन्ति समानप्रवरा यतः। । माण्डव्यर्दर्भसंजैश्च रैवताख्यैस्तथैव च ॥२८॥