________________
अभिनवमाधवीयः,
३२७ अथ द्वितीये प्रकरणे भृगुगणः । तत्र गोत्रकर्ता जमदग्निः । तस्य गोत्राणि शुद्धभृगुगणा निरूप्यन्ते - वत्सा बिदा आष्टिषेणा इत्येते जमदग्नयः । ते पञ्चावत्तिनस्तेषां न विवाहः परस्परम् ॥२३॥
मार्कण्डेयमाण्डव्यदार्भायणपौलस्त्यकाशकृत्स्नपाणिनिवाल्मीकिरजतवाहप्रभृतयो वत्साः । तेषां भार्गवच्यावनाप्नवानौर्वजामदग्न्येति पञ्चायप्रवरो भवति । विदप्रभृतीनां भा. र्गवच्यावनाप्नवानौर्वबैदेति पञ्चायप्रवरो भवति । आर्टिषेणप्रभृतीनां भार्गवच्यावनाप्नवानानूपाष्टिषेणेति पञ्चार्षेयप्रवरो भवति। एषु प्रवरेषु भार्गवच्यावनाप्नवानेति ऋषित्रयसाम्येन घ्यायसन्निपातेन न विवाहः पञ्चार्षेयाणामिति परिभाषान्यायेन वत्सा बिदा आर्टिषेणा इत्येतेषां परस्परमविवाहः । ते पञ्चावत्तिन इति बोधायनमुनिवचनेन स्वस्वगणैरितरगणाभ्यां च न विवाहः । एते त्रयः पञ्चावत्तिनः ॥ । चत्वारश्शुद्धभृगवः यस्का मित्रयवस्तथा । वैनाश्च शुनकास्तेषां विवाहोऽस्ति परस्परम्॥२४॥ __यस्काः मित्रयवः वेनाश्शुनका इति चत्वारशुद्धभृगवः । या. स्कमौनमौकवाधूलसंकृतीनां भार्गववैतहव्यसावेदसेति त्र्याषेयप्रवरः । मित्रयूनां भार्गववाध्रयश्वदैवोदासेति व्यारेयः प्रवरः । वैनानां भार्गववैन्यपाति व्यायप्रवरः । शुनकानां शौनकेति वा गार्समदेति वा एकार्षेयप्रवरः । भृगोर्गोत्रकर्तृत्वाभावात् यस्कादिषु त्रिषु प्रवरेषु भृगोरनुवर्तनेऽपि न समानगोत्रता । ज्यायेष्वेषु त्रिषु प्रवरेषु ऋषिद्वयानुवर्तनाभावात् समानश्वरता न च । शुन
42