________________
अश्वलायनप्रवरकाण्डेम्.
२९७
अत उभयतो द्वौद्वौ न ग्रहीतव्यौ । कुतः चतुर्णा वरणनिषेधात्, अति पञ्चानां प्रवरनिषेधात् । तत् द्वयोरेकार्षेयत्वेऽपि द्वयार्षेयवरणमनुज्ञातमिति गम्यते ॥
॥ ५॥
आङ्गिरसबार्हस्पत्य भारद्वाज कात्यात्की लेति ॥ ६ ॥
प्रदर्शनमात्रमेतत् । द्वयामुष्यायणलक्षणमुच्यते ॥
अपुत्रेण परक्षेत्रे नियोगोत्पादितस्सुतः । आवयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति याज्ञवल्क्यवचनादेवंप्रकारमेव द्र्यामुष्यायणत्वं नान्यथेति मन्तव्यम् । द्वयामुष्यायणानां सर्वेषां पक्षद्वयेऽप्यविवाहः यामुष्यायणत्वाभावे वा 'ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो वीजिनश्च' इत्यस्य वचनस्याविषयः ॥
॥ ६ ॥
इति त्रयोदशी काण्डका.
1
अत्रीणामात्रेयार्चनानसश्यावाश्वेति । गविष्ठिराणामात्रेयगाविष्ठिरपौर्वातिथेति ॥
11911
अत्र द्विविधा अत्रय उक्ताः । अन्यत्रान्ये च सन्ति । तेषां सर्वेषामत्रीणां परस्परमविवाहः । एवमुत्तरे क्वचिद्दृष्टव्यम् ॥ १ ॥
चिकितगालवकालबवमनुतन्तुकुशिकानां वैश्वा
मित्रदैवरातौदलेति ||
॥२॥
चिकितानां गालवानां कालानां बवानां मनुतन्तूनां कुशि कानामित्येतेषां षण्णामयं प्रवरो भवति ॥
॥२॥