SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आश्वलायनप्रवरकाण्डम्. २९५ मन्धातारं हैके ब्रुवतेऽतीत्याङ्गिरसं मान्धात्राम्बरीषयौवनाश्वेति ॥ ॥४॥ अयं वा हरितादीनां षण्णां प्रवरो भवति ॥ ॥४॥ सङ्कतिपूतिमाषतण्डिशम्बुशैवगवानामाङ्गिरसगौरिवीतसाङ्कत्येति ॥ ॥५॥ सङ्कृत्यादीनां पञ्चानामयं प्रवरो भवति ॥ ॥५॥ शाक्त्यो वा मूलं शाक्त्यगौरिवीतसाङ्कत्येति ॥ सङ्कत्यादीनामयं वा प्रवरो भवति । एते सङ्कत्यादयः प्रकरणादङ्गिरशब्दसमवायाञ्चाङ्गिरसा इति प्रतीयन्ते । शकिगुरुवीतसमन्वयासिष्ठा इत्यपि प्रतीयन्ते । तथा क्वचित् प्रवराम्नायेऽङ्गिरसां प्रकरण एव सङ्कत्यादीनादिश्याङ्गिरोमुखमेव प्र. वरं पठ्यमानं पश्यामः । तथा कस्मिाश्चित् प्रवराम्नाये वसिष्ठानां प्रकरण एतानवोद्दिश्य शाक्त्यमुखं प्रवरं पठ्यमानं पश्यामः। एवं द्वाभ्यामपि सम्बन्धदर्शनादुभयोरन्यतरसम्बन्धिन एवेत्यवगन्तुं न शक्यते । यद्येषां वंशभेदस्थितिरस्ति तदा इमे आङ्गिरसा इमे वासिष्ठा इत्यवगम्येत । तत्राङ्गिरसानामयं वसि. ष्ठानामयामिति निवेशे विकल्पाभावः । अतो वंशाभेदात् विकल्प एव प्रवरयोः । ततः सङ्कृत्यादीनां वसिष्ठत्वाभाचे प्रमाणाभावाद्वसिष्टैरेषामविवाहः ॥ इति द्वादशी कण्डिका.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy