SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २.. गर्गभरद्वाजकुलविवाहीवचारः. र्थग्रामकर्मकत्वान्वितस्य चैत्रेणेति चैत्रकर्तृकर्तृकत्वान्वितणिजर्थव्यापारेण स्वनिर्वाह्यकर्तृतानिरूपकत्त्वसम्बन्धनान्वितस्य धात्वर्थस्य कर्मप्रत्ययार्थकर्तृत्वेऽन्वयः, ‘ण्यन्ते कर्तुश्च कर्मणः' इत्यनुशासनात् । तस्य तु प्रथमान्तपदार्थे अजायामन्वयः । तथा च चैत्रकर्तृकव्या पारनिर्वाह्यकर्तृतनिरूपकग्रामकर्मकगमनकर्तृत्वाश्रयीभूता अजेति शाब्दबोधक्रमः । तदृष्टान्तेन 'स्वातन्त्र्येण विशेषितः' इत्यन्त वितणिजन्तपक्ष भेदस्य नित्यत्वेन किञ्चिद्व्यापारप्रयोज्यत्वासम्भवात् अत्र तथा शाब्दबोधोपपादनासम्भवात् इति एवं पूर्वार्धप्रतिपादितार्थहेतुपरत्वेन अतश्शब्दार्थोपपत्ती व्यवहितपरामर्शन क्लिष्टा गतिरप्यन्याय्या । एवं कपिगणे................प्रमाणमन्तरेणैवाप्रसक्तगायेविवाहासम्भवाशङ्कासमाधानपरत्वेन ‘अतो गार्ग्य' इति वचनावतारणात् विचारणीयत्वेन प्रसक्तस्वतन्त्रकपिविवाहासम्भवपरत्वेन तद्वचनावता. रणमेव न्याय्यमित्याकलयामः । इत्थं चोक्तानुपपत्तिभिः दर्शितपाठः प्रामादिक इति सुष्ठूक्तमस्माभिः । वस्तुतः औत्तरीयसुजातग्रन्थेषु 'अथ कपिगणः गौतमादिवदेवायं गणोप्यत्राष्टकान्वितः । अतो गार्यकर्भर्तुस्स्वातन्त्र्येण विशेषतः ।। भारद्वाजैस्सहातोस्य विवाहोगीकृतोपरैः ।' इत्येकः पाठः । भारद्वाजैस्सहान्योन्यं विवाहोङ्गीकृतोऽखिलैः । इत्यपरः पाठः । अत्र चायमर्थः-गार्यकपेरिति पञ्चमी, षष्ठीतत्पुरुषश्च समासः, भर्तुः स्वतन्त्रस्य कपेः गार्ग्यसम्बन्धिकप्यपेक्षया अस्वतन्त्रकष्यपेक्षयेति यावत् । विशेषतः स्वातन्त्र्येण हेतुना अस्य कपः अतोपरैः स्वतन्त्रकपिभिन्नैः प्रत्येकगणानुप्रविष्टैरिति
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy