SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भरद्वाज कुल विवाहविचारः. १९९ तथा च गार्ग्यः भर्तुः स्वातन्त्र्येण अत्र कपिगणे विशेषित इत्यर्थ इति । तदिदं मलयं गच्छतो मन्दरपथान्वेषणं यतः गार्ग्यसामान्यैकदेशस्य त्रिप्रवरगार्ग्यस्य पञ्चप्रवरगार्ग्यद्भेदोपपाद नाय स्वतन्त्र कपिगणप्रवेशाय च प्रवृत्तस्य भवतः गार्ग्यशब्देन सामान्यस्य ग्रहणं । यदप्यत्र — गार्ग्यविवाहप्रतिपादके ' अतो गार्ग्यः कपेर्भर्तुः' इति वचने अतश्शब्देन पञ्चप्रवरभारद्वाजीयगार्ग्यः परामृश्यते । तस्यार्थः प्रतियोगित्वं तस्य विशेषित इत्यत्र भेदपर्याये विशेषेऽन्वयः, अन्तर्भावितणिजयं शब्दः तथा च भर्तुस्स्वामिनः कपेः स्वातन्त्र्येणायं गार्ग्यभारद्वाजीयगार्ग्यवद्विशेषितः आपस्तम्ब - पाठतः स्वतन्त्र कपिगणे अयं गार्ग्यः भारद्वाजीयगार्ग्याद्भिन्नतया बोधित इति यावत् । अतो हेतोरस्य गार्ग्यस्य सगणत्वसमानप्रवरकत्वादिरहिततया भारद्वाजैस्सह विवाहोऽखिलैरङ्गीकृत इति स्वरसार्थ इति तदपि न साधीयः । अत्र गार्ग्यः पञ्चप्रवरगार्ग्यप्रतियोगिकभेदवानिति शाब्दबोधोपपादनं व्युत्पत्तिविरुद्धम् । द्रव्यं न घटः इत्यस्य प्रामाण्यवारणायानुयोगितावच्छेदकस्य प्रतियोग्यवृत्तित्वनियमाभ्युपगमात् । न च घटप्रतियोगिकभेदस्य द्रव्यत्वसामानाधि - करण्येन सत्वात् तद्वाक्यप्रामाण्यं दुर्वारमेवेति वाच्यम् । भेदबोधस्थले तद्धर्मितावच्छेदकविशिष्टे धर्मितावच्छेदकावच्छेद्यानुयोगिता सम्बन्धेन भेदान्वयबोधनैयत्यात् । न चैवमपि घटो न घटपटोभयमित्यत्र घटत्वावच्छेद्यानुयोगितासम्बन्धेन घटपटोभयभेदान्वयबोधो न स्यादिति वाच्यम् । प्रतियोगितावच्छेदकपर्याप्त्यवच्छेदकधर्मावच्छिन्नपर्याप्तिकान्यधर्मस्यैव तद्धर्मावच्छिन्नप्रतियोगिताकभेदानुयोगितावच्छेदकत्वमिति नियमेनोक्तदोषाभावात् । तथाच पञ्चप्रवरगार्ग्यत्वाव च्छिन्नप्रतियोगिताकभेदानुयोगितावच्छेदकत्वस्य त्रिप्रवरगार्ग्यमात्रवृत्तिधर्म एवाभ्युपेयतया तद्धर्मावच्छिन्नस्य प्रकृते अनुपस्थितः । अजा ग्रामं याप्यते चैत्रेणेत्यादिणिजन्तसमभिव्याहारस्थले द्वितीयान्ता -
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy