________________
१९४ . गर्गभरद्वाजकुलविवाहविचार.
भारद्वाजैस्सहातोस्य विवाहोऽङ्गीकृतोखिलैः । इति पाठो दृश्यते । अस्यार्थः-अतो गार्ग्य इत्यत्र अतश्शब्दः भारद्वाजीयगार्ग्यपरः । भेदश्च पञ्चम्यर्थः । अन्वयश्चास्य गार्ग्य इति प्रथमान्तपदार्थे । तथा च भारद्वाजगा>भिन्नः त्रिप्रवरगार्ग्यः भर्तुः कपेः स्वातन्त्र्येणाधिपत्यलक्षणेन विशेषितः विशेषवान् तद्गणानुप्रविष्ट इति यावत् । अतः कारणात् अस्य त्रिप्रवरगा
य॑स्य भारद्वाजैस्सह विवाहोङ्गीकृत इति । ततश्चैतत्पाठानुसारेण त्रिप्रवरगार्यस्य कपिगणानुप्रवेशप्रतीतेः भारद्वाजगणैक्यं नास्त्येवेति चेन्मैवम् । एतत्पाठानुरोधेन त्रिप्रवरगार्ग्यस्य स्वतन्त्रकपिगणानुप्रवेशे सूत्रकारोक्तभारद्वाजघटितप्रवरविरोधेन बहुतरनिबन्धनकारीयकपिविभा. गप्रकरणोक्तसङ्ख्यापरिच्छेदविरोधेन आपस्तम्बसूत्रानुयायिसार्वभौमीयग्रन्थोक्तगणाघटितकपिगणसंख्याविरोधेन एतद्वचनपूर्वोत्तरसन्दर्भविरोधेन च तादृशपाठस्य प्रामादिकत्वात् । तथा हि-तदुत्तरं तथा चोक्तं स्मृत्यर्थसारे–' कपिप्रसिद्धावुदिताविह द्वौ' इत्यादिना स्वतन्त्रकपेः भारद्वाजकुले विवाहप्रतिपादनं न सङ्गच्छते; पूर्वग्रन्थे त्रिप्रवरगार्ग्यस्यैव भारद्वाजेषु विवाहसम्भवप्रतिपादनेन तत्संवादपरोत्तरग्रन्थेऽपि गार्यविवाहसम्भवप्रतिपादनस्यैव आवश्यकत्वात् । एवमतो गार्य इत्यस्य व्यवहितपञ्चप्रवरगार्ग्यभिन्नगार्य इत्यर्थकथनमप्यसङ्गतम् ; भारद्वाजप्रकरणस्य परिसमाप्तत्वेन 'अथ कपिगणः ' इति प्रकरणान्तरारम्भेण च अत इत्यस्य व्यवहितपञ्चप्रवरगार्ग्य. परामर्शकत्वासङ्गतेः । यत्तु पञ्चम्या भेदोर्थ इति, तत्तु सर्वथा व्याकत्यनभिज्ञतामूलं, पञ्चम्या भेदरूपार्थे अनुशासनस्य पठ्यमानव्याकृतितन्त्रे क्वचिदप्यदर्शनात्, अनादिप्रयोगाभावेन निरूढलक्षणाया असम्भवाच्च । अन्यथा चैत्रान्मैत्र इत्यत्र चैत्रभिन्नो मैत्र इति शाब्दबोधापत्तेः, घटादन्य इत्यत्र पौनरुक्त्यापत्तेश्च । यदपि अतो गार्य इत्यत्र सार्वविभक्तिकस्तसिः, अत्रेति तदर्थः ।