SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ गर्गभरद्वाजकुलविवाहविचार यावत् । भारद्वाजैस्सहान्योन्यं वा विवाहोऽङ्गीकृत इत्यर्थः । एवं सत्येव उत्तरग्रन्थस्सङ्गतो भवति । कथमन्यथा स्वतन्त्रकर्भारद्वाजैस्सह विवाहप्रतिपादनं ज्यायः । न चास्मत्पाठेऽपि स्वतन्त्रकपेर्भारद्वाजेषु विवाहप्रतिपादने सति तदनुप्रविष्टगार्ग्यस्य विवाहस्सिद्धयतीति वक्तुं शक्यं, तदनुप्रवेशस्य दर्शितबहुतरप्रमाणविरुद्धत्वेन तदर्थमेवमर्थकरूपनस्यातिक्लिष्टत्वेन सहृदयहृदयङ्गमत्वाभावात् । इत्थं च-त्रिप्रवरगार्ग्यस्य स्वतन्त्रकपिगणानुप्रवेशे सर्वथैव साधकाभावात्, कपिगणविचारप्रस्तावे प्रौढनिबन्धनेषु तत्प्रवरतदनुप्रवेशयोग्नभिधानात्, प्रत्युत 'त्रीणि केवलं त्रयः परस्परं नोहहेयुः । अङ्गिोवैशिष्टयेन चत्वारः परस्परं नोहहेयुः' इति च तत्रतत्र गार्ग्यप्रहाणेन सङ्ख्यापरिच्छेदानुगुण्यात्, अस्मत्सूत्रस्य अग्निहोत्रं जुहोति यवागू पचतीत्यादाविव पाठक्रमस्य त्याज्यत्वतात्पर्यकत्वात्, . भारद्वाजाश्च कपयो गर्गा रोक्षायणा इति । चत्वारोपि भरद्वाजा गोत्रैक्यान्नान्वयुर्मिथः ॥ इति मतान्तरबोधनतात्पर्यकत्वात्, सूत्रान्तरे प्रवरद्वयविकल्पानुरोधाच्च भारद्वाजगणानुप्रविष्ट एव गायेस्सर्वोपीति सहृदयहृदयङ्गमः पुनः नियंळीकः पन्थाः । ततश्च स्मृतिरत्नावल्यां सगोत्रसमानप्रवरसगणेषु विवाहं कुर्वतां प्रत्यवायमाह संग्रहकारः गोत्रजां गणजां कन्यां कामतः परिणीय यः । प्रजामुत्पादयेत्कुर्याद्गुरुतल्पगमव्रतम् ॥ इत्यादिना गणजाविबाहेऽपि निषेधप्रतिपादनात् ' भारद्वाजास्तु' इत्यादिवचनेषु गर्गशब्दः सगणत्वादिदोषानुबन्धेन गार्ग्यसामान्याभिप्रायक एवेति कृतं पल्लवितेन ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy