________________
गर्ग भरद्वाज कुलविवाहविचारः.
गणान्तरेऽपि तुल्याख्या नोहेयुः परस्परम् ।
इति निषेधादसंकोचेन कपिगणप्रविष्टानां सर्वेषां भारद्वाजगणप्रविटैर्विवाहोऽसिद्ध एवेति वाच्यम् ।
प्रदर्शयामस्तुल्याख्यान् गणभेदेष्ववस्थितान् । स्वतन्त्रश्चास्वतन्त्रश्च द्वौ कपी गणभेदतः ॥
१९३
इत्यनेन गणद्वयप्रविष्टानां सर्वेषां स्वतन्त्रा स्वतन्त्र कपिवर्ज परस्परं विवाहसिद्धेः । यदि गायपि तत्र प्रविष्टस्स्यात्, तर्हि तस्यापि कपिवदेवाभिधानं स्यात् । न तथा गणद्वये पञ्चप्रवरत्रिप्रवरभेदेन गार्ग्याभिधानं दृश्यते । एवं चैतदन्यथानुपपत्या भवदुक्तत्रिप्रवरगार्ग्यस्यापि भारद्वाजगणान्तः प्रवेशे संजातद्रदिनि भारद्वाजानां त्र्यार्षेयाणां च सगणत्वदोषः ब्रह्मणाऽपि दुष्परिहरः । न च गणाधिपत्यतिरिक्तानामेव गणघटकानां सगणत्वं दोष इति वाच्यम् । स्वस्वामिकसमुदायघटकत्वस्य स्वस्मिन्नप्यनपायात् । अन्यथा 'गणं स्वस्वं विहाय ' इत्यत्र गणस्वामिवहिर्भावेन ग णस्य वक्तव्यतापातात् । एवं धर्मप्रवृत्तौ भारद्वाजकुले केषां चित् विवाहो विधीयते ।
एतेषां तु विशेषोयमामहय्याभिधायनैः । औरुक्षय्यैश्च कपिभिः विवाह स्त्रिभिरिष्यते ॥
इत्यत्र कपिभिरिति बहुवचनं तत्पुत्राभिप्रायेणेति तत्तन्नामाभिधानपुरस्सरं भारद्वाजकुले तेषां विवाहसिद्धिमभिधाय तद्गुणं परिसमाप्य गणान्तरमुपक्रान्तम् । न हि तत्र स्वतन्त्र कपिगणे त्रिप्रवरगार्ग्यस्यानुप्रवेशः परिदृश्यते । दृश्यते च प्रत्युत 'विवाह स्त्रिभिरिष्यते' इति संख्यापरिच्छेदेन त्रिप्रवरगार्ग्यव्यावृत्तिः । एवं