SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १९४ गर्गभरद्वाजकुलविवाहविचारः. ग्रन्थान्तरे स्वतन्त्रकपिगणविभागप्रस्तावे कपिश्च महदक्षय्योरुक्षय्यौ त्रीणि केवलम् । अयं कपिगणस्तस्मिन् न विवाहः परस्परम् ।। इति कपीनां विभागमभिधाय · त्रित्वातिरिक्तसंख्यानिषेधं केवलशाब्देनाभाषिष्ट । इत्थमेव स्मृतिरत्नावल्यां च सङ्ग्रहे स्वतन्त्रक. पिविभागावसरे कपिमहाय्यारुक्षय्यस्त्रयः कपिगणास्स्मृताः । इति कपीनां त्रित्वसंख्यापरिच्छेद एवानुमोदितः । अनया च प्रणाळिकावेत्रयष्टया कपिगणान्तर्गतापूर्वत्रिप्रवरगार्यप्रत्याशापिशा. चिका दूरोत्सारिता वेदितव्या । अत्र दर्शितस्थलेषु त्रित्वसंख्यापरिच्छेदः तदन्यसंख्याव्यावृत्तिश्च कपिगणप्रविष्टप्रवरघटकऋषिविषयेति जडोक्तिरपि पराहता, प्रवरघटकऋषीणां संख्यापरिच्छेदकथनस्य सन्दर्भविरुदत्वात् । भृगुगणमारभ्य तत्तद्गणानुप्रविष्टऋषीणामेव षोडश-सप्त-त्रयः-अष्टौ-सप्त-दश-त्रय इत्यादिना संख्याभिधानात् । तथाऽभिप्रायकल्पकप्रमाणाभावाच, एवमापस्तम्बसूत्रानुसारिभिः सार्वभौमैः दशनिर्णये प्रवरविवेचनप्रस्तावे भारद्वाजगणनिरूपणावसरे गार्ग्यसामान्यस्यैवानुप्रवेशो विना विशेषाभिधानमादर्शितः । कपिगणप्रकरणे तु कप्यङ्गिरामहय्योरुक्षय्याश्चत्वारः परस्परं नोहहेयुरिति मूलभूताङ्गिरोनुप्रवेशेन चत्वार इति परिच्छेदश्चेति कपिगणानुप्रविष्टमसन्तं गार्ग्यमन्विष्यान्विप्य अलमलमत्यायासेनेति विरम्यते । यत्तु-त्रिप्रवरगार्ग्यस्य स्वतन्त्रकपिगणप्रविष्टत्वेऽपि तद्रूणविभागप्रकरणे तस्य वक्तव्यत्वमनावश्यकम्, गणाधिपतितत्तुल्यप्रवराणामेव निबन्धनग्रन्थेषु विवाहप्रकरणे अवश्यं वक्तव्यतया उक्तत्र्यायगार्ग्यस्य गणाधिपकपिसमानप्रवरकत्वा
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy