________________
१९२
गर्गभरद्वाजकुलविवाहविचारः, भारद्वाजाश्च कपयः गर्गा रोक्षायणा इति ।
चत्वारोपि भरद्वाजाः गोत्रैक्यान्नान्वयुमिथः । इत्यादिना स्वतन्त्रकपीनामपि भारद्वाजगणान्तर्गतत्वेन एतन्मतभेदज्ञापनाय च भारद्वाजगणमध्ये कपिगणप्रवराभिधानानन्तरं सिंहावलोकनन्यायेन भारद्वाजगणानुप्रविष्टगार्ग्यप्रवराभिधानमित्येव ज्ञायते । क्रमस्य विवक्षितत्वे भारद्वाजगणानुप्रविष्टानां सर्वेषां प्रवरमभिधाय तन्मध्ये पञ्चप्रवरमपि गार्ग्यमभिधाय कपिगणमुपक्रमेत सूत्रकारः । अत एवाश्वलायनसूत्रे उत्तरषट् द्वादशाध्याये ‘गर्गाणामाङ्गिरसबार्हस्पत्यभारद्वाजगार्ग्यशैन्येति । आङ्गिरसगार्ग्यशैन्येति वा' इति विकल्पेनैतस्यैव प्रवरद्वयमभिहितम् । तदुत्तरं च हरितकण्वगणावभिधाय कपीनां आङ्गिरसामहय्योरुक्षय्येति प्रवरोभिहितः । इतोपि व्यवधानात् कपिगणाननुप्रविष्टो गार्ग्य इति न किञ्चिदेतत् । ___ यत्तु-गणान्तरप्रविष्टभरद्वाजघटितप्रवरप्रदर्शनमात्रेण कथं त्रिप्रवरगार्ग्यस्य भारद्वाजगणानुप्रवेशः? गणान्तरघटकऋषिघठित प्रवरघटने बाधकाभावात् इत्युच्छृङ्खलमतं तत्तुच्छम्-तथा सति कपिगणानुप्रवेश्यगाय॑स्य विकल्पितप्रवरद्वयपक्षे भारद्वाजणार्यशैन्याङ्गिरोगार्ग्यशैन्यरूपऋषित्रयस्य भारद्वाजीयकतिपयऋषिप्रवरेष्वनुवृत्त्या तैस्समानप्रवरताया वज्रलेपायमानत्वापातात् । न चेष्टापत्तिः
स्वस्वं हित्वा गणं सर्वे विवहेयुगणान्तरैः ।
गणं स्वस्वं विहायाथ विवाहश्शुभदो भवेत् ॥ अष्टमाः कपयः आमहय्योरुक्षय्याः एतेऽन्यैस्सप्तदशभिर्विवाह्याः इत्यतंकोचेन गणान्तरप्रविष्टैस्सैवरेव विवाहस्य सकलनिबन्धनकाराभ्युपगतस्य प्रतिरोधापत्तेः । न च तेष्वेव निबन्धनेषूत्तरत्र