________________
.. प्रवरदर्पणम्.
१७३ फागुलः औमिलः औहलः कोहलः शातातपः कोमशायनः सातविः जातविः एषां वैश्वामित्रिसाहुलमाहुलेति । हिरण्यरेतसां वैश्वामित्रहैरण्यरेतसेति द्वौ । सुवर्णरेतसां वैश्वामित्रकापातरसेति द्वौ । घृतकौशिकेति द्वौ । एते षट् क्वचित् । एषां वैश्वामित्राणां परस्परं सर्वेषां न विवाहः । यद्यपि
अत्रेरेवापरं वंशं तव वक्ष्यामि पार्थिव । अत्रेस्सोमस्सुतः श्रीमान्तस्य वंशोद्भवो नृपः ॥ विश्वामित्रस्सुतपसा ब्राह्मण्यं समवाप्तवान् ॥ इति मात्स्योक्तेः विश्वामित्रस्यात्रिवंशत्वेन परस्परमविवाहः प्रतीयते । तथाऽपि द्वयोभिन्नगोत्रत्वश्रवणात् विवाहो ज्ञेयः । अन्यथा हि विश्वामित्रत्वेन निषेधो व्यर्थ एव स्यात् अत्रिगोत्रत्वेनैव निषेधसिद्धेरिति कुशकाशावलम्बनेन समाधातव्यम् ॥
इति विश्वामित्राः..
। अथ कश्यपाः । तेषां पञ्च-निध्रुवाः कश्यपाः रेभाः शाण्डिलाः लौगाक्षयश्चेति । ___ तत्राद्याः कश्यपाः-छाङ्गरिः मठरः ऐतिशायनः अभूत्यः वैशिप्रः धूम्रः धूम्रायणः सोम्यः धायणः औटवृक्षः राग्रायणः पैयकिः. प्रावर्यः हृद्रोगः आतपः पञ्चायनीकः मेषातकिः सामविः मापौवविः सायस्यः आसुरायणः छागव्यः सौनघः स्थौलकेशिः वाध्रकिः औपव्यः लाक्षायणः क्रोष्णः जीवन्तः खान्द्रायणः रोहितायनः मितकुम्भः पिङ्गाक्षिः औदलिः मारायणः पौलविः वैकर्णेयः कौशिकेयः धूमलक्ष्मणिः सुरः गौरिवा
22a