________________
१५०
प्रवरदर्पणम् गोत्रत्वं तेषामुक्तेष्वन्तर्भावात्, उक्तभिन्नेषु तु केवलभार्गवेष्वाष्टिषेणादिषु केवलाङ्गिरसेषु हरितादिषु च कथं गोत्रत्वं भृग्वङ्गिरसा वधिकृत्य तेषां पाठात् । तयोश्च सप्ताद्यनन्तर्ग तेरिति चेन्न । तथाऽप्यत्रष्टापत्तिरिति केचित् । अत एव स्मृत्यर्थसारादिभिः प्रवरैक्यादेवात्राविवाह उक्तः । सगोत्रत्वेनैव निषेधात् 'असमानार्षगोत्रनाम्' इत्यादौ समानप्रवरत्वं पुनरुक्तं स्यात् । अतो गोत्रत्वेन परिज्ञातानां मध्ये यमुपक्रम्य प्रवराम्नानं स तेषां गोत्रं यथा 'अथ ह जामदग्न्यानाम् ' इत्यादि । बोधायनोक्तिस्तु अनुवादत्वादुपलक्षणं तेन भृग्वङ्गिरोगणेषु सप्तऋषिभिन्नत्वेऽप्यधिकारागोत्रत्वम् । अत एवाह विज्ञानेश्वरः ‘गोत्रं वंशपरंपराप्रसिद्धम् ' इति । भट्टाचार्या अप्याहुः—'यथा समाने कुलीने त्रिरिति स्मरणलक्षणं गोत्रम्' इति । न च भृगोरावृत्त्या वत्सार्टिषेणयोरपि सगोत्रत्वापत्तिः, तत्र पर्युदासात् । तदाह बोधायनः
एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते ।
तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरोगणात् ॥ इति । भृग्वङ्गिरोभिन्नैकऋष्यनुवृत्तेः सगोत्रत्वम्, नान्यथेत्यर्थः । अत्र अनुवृत्तिशब्दार्थमाह स्मृत्यर्थसारे
व्रीयमाणतया वाऽपि सत्तया वाऽनुवर्तनम् । एकस्य दृश्यते यत्र तद्गोत्रं तस्य कथ्यते ॥
इति । अस्यार्थः-व्रीयमाणतया प्रवरान्तर्भावेन यथा आद्यानां भृगूणां द्वित्रिप्रवरसाम्ये । सत्तया अधिकारेणोत्पादकत्वेन वा यत्र गोत्रान्तरे एकस्य ऋषेरनुवर्तनं दृश्यते तद्गोत्रान्तरं तस्यानुवर्तमानस्य गोत्रमपत्यम् । तयोस्सगोत्रतेत्यर्थः यथा कपीनां भर