________________
प्रवर दर्पणम् द्वाजगोत्रान्वयेन । आङ्गिरसामहथ्यौरुक्षयसेति हि कपिप्रवराः, आङ्गिरसबार्हस्पत्य भारद्वाजेति भारद्वाजस्य । अत्र अङ्गिरोगणस्थत्वात् द्विप्रवरसाम्याभावेना समानप्रवरत्वेऽपि सप्तऋप्यन्तर्भूतभरद्वाजापत्यत्वेन सन्देशाद्भरद्वाजानुवृच्या कपेः सगोत्रत्वादविवाहः । वस्तुतस्तु - गोत्रस्य व्रीयमाणतयाऽनुवृत्तिर्दुर्घटैव । न ह्यघमर्षणकौशिकवि श्वामित्रेति गोत्रभूतविश्वामित्रो निर्दिश्यते । एवं हि द्विप्रवरत्वापच्या विश्वामित्राणां त्र्यार्षेय इत्यादिनिर्देशानुपपत्तेः । न चैकस्यैव गोत्रत्वं प्रवरत्वं अभेदे षष्ठयापत्तेः । कथं च सप्तऋषिरूपस्य विश्वामित्रस्य गोत्रत्वं तदपत्यत्वाभावात् । तेन ऋप्यपत्यभूता एव तुल्यनामानो गौतमादयः ऋषयः गोत्रत्वेन प्रवरत्वेन चोच्यन्ते । अत एव वार्तिककारैर्भुग्वादीनां पूर्वभूग्वादिवरणसम्भवादस्त्येवाधिकारस्तेन ऋप्युदाहरणमतन्त्रमित्युक्तम् । अत एव नामैकत्वेऽपि गणभेदे प्रवरभेदे च ऋषीणां भेदाद्भवत्व विवाहः, लोके एकनाम्नामप्यनेकेषां पुंसां दर्शनादित्युक्तं प्रवरमञ्जर्याम् । तेन गोत्रभूतऋषेर्भेदात् व्रीयमाणत्वेन प्रवरेष्वनुवृत्तिरिति त्रिप्रवरभूतस्यैवान्यप्रवरेष्वनुवृत्तिर्ज्ञेया । सत्तयाऽनुवृत्तिश्व गोत्र एव न तु प्रवरेषु साक्षात्पठितानामेव प्रवरत्वादिति दिक् ॥
१५१
प्रवरशब्दार्थस्तु प्रवरणानि प्रवरा इति ' अग्निर्देवो होता' इति मन्त्रे हव्यवाहसंज्ञकाः ऋषिप्रकाशने विशेषणत्वेनोपात्ता ऋषय इति प्रवरमञ्जरी । गोत्रभूतस्य ऋषेः पितृपितामहप्रपितामहादय एव प्रवराः । तेषां च पितृपुत्रपौत्रक्रमेण वरणं होतुः । तथा च शतपथश्रुतौ प्रवराननुक्रम्योक्तं- ' पितैवाग्रेऽथ पुत्रोथ पौत्रः' इति । ' परंपरं प्रथमम्' इत्यत्र वृत्तिकृताऽप्येवमुक्तम् । अत एवाङ्गिरसबा - र्हस्पत्य भारद्वाजेत्यादौ तथैव दृश्यते । आङ्गिरसेत्यादितद्धितस्तु यजमानस्य ऋषिसबन्धबोधनार्थः । पित्रादीनामपि मन्त्रकृतामेव प्रवरत्वम् |