SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२८ - प्रवरमारी. समानप्रवरत्वादविवाहः प्रसज्यत इति न्यायः । अयमेव न्यायो वैश्यानामपि द्रष्टव्यः; तेषां च पुरोहितस्य प्राडिवाकस्य दार्विहोमिकस्य विद्यमानत्वात्, आत्मीयप्रवरपक्षे समानप्रवरत्वादविवाहप्रसक्तेश्च । राजशब्दस्याभिषिक्तमात्रवचनत्वात् ब्राह्मणाश्च राज्यं प्राप्ताः पुरोहितप्रवरेणैव प्रवृणीरन्नित्येके मन्यन्ते तेषामपि पुरोहितस्य विद्यमानत्वात् । एतस्मिन्पक्षे पुरोहितसमानगोत्रैश्च सहाविवाहश्च ॥ इति व्याख्यातमिदं क्षत्रियवैश्यकाण्डद्वयमपि ॥ अत्र श्लोकः राज्ञां विवाहप्रवरस्तु कार्यः पुरोहितैर्यः क्रियते स एव । येषां न कार्याः प्रवराः कथं चित्कुतस्समानप्रवरत्वदोषात् ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमअर्या क्षत्रियवैश्यप्रवरकाण्डद्वयं समाप्तम् । अथ स्वगोत्रप्रवरानभिज्ञद्विजोत्तमानामधुना प्रवक्ष्ये । स्वाचार्यगोत्रप्रवराविवाहानाचार्यपुत्रत्वबलेन लभ्यान् ॥ स्वगोत्रं प्रवरं वा स्वं ये विप्रा नैव जानते । तेषां विवाहप्रवराः कथं स्युरिति संशये ॥ आपस्तम्बादयः प्राहुः सर्वज्ञाः संशयच्छिदः । अथासंप्रज्ञातबन्धुराचार्यामुष्यायणमनुप्रब्रवी ताचार्यप्रवरं वृणीत इति । अस्थायमर्थः-बन्धुर्गोत्रं प्रवरो वा सम्यगप्रज्ञातो येन सोसंप्रज्ञातबन्धुः सत्यकामादिः । यथा सत्यकामो जाबालो गौतमाचार्य 'उपेयां भगवन्तं' इत्युक्त्वा शरणं प्रपन्नो गौतमेन च 'किं
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy