SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अज्ञातगोत्रप्रवरकाण्डम. १२९ गोत्रो नु सोम्यासि' इति च गोत्रं पृष्टस्सन्नाह-'नाहमेतद्वेद भो यद्गोत्रोहमस्मि' इति । एवमसंप्रज्ञातबन्धुराचार्यामुष्यायणमाचार्यगोत्रं प्रवरं वाऽनुब्रवीत आनुपूाद्यात् । 'आचार्यप्रवरं वृणीते' इत्यनेनापि तथाऽर्थमाह ॥ ननु 'यो वा अन्यस्सन्नन्यस्यार्षेयं प्रवृणीते स वा अस्य तदृषिरिष्टं वीतं ग्रह' इत्याद्या दोषश्रुतयो बाध्येरन् । नेत्याहुः-औरसपुत्रादपि शिप्यस्य श्रेष्ठपुत्रत्वात् । यथाऽऽहापस्तम्बः-'एवमस्मै धर्मानाचिनोति स आचार्यस्तस्मै न द्रुह्येत कदाचन स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्म शरीरमेव मातापितरौ जनयतः' इति ॥ बोधायनोप्याह-'यानुत्पादयते यानुपनयते यानध्यापयते यान्याजयते ते तस्य पुत्रा भवन्ति' इति ॥ सति चैवमाचार्यगोत्रैः शिष्याणां न विवाहः, समानगोत्रत्वात्समानप्रवरत्वाच्च ॥ इति व्याख्यातं एतदसंप्रज्ञातबन्धूनां गोत्रप्रवरकाण्डम्. अत्राहु: असंप्रज्ञातबन्धूनामाचार्यप्रवरास्स्मृताः । पक्षे चास्मिन्विवाहोपि तद्गोत्रैस्सह नेष्यते ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जर्याम संप्रज्ञातबन्धूनां गोत्रप्रवरकाण्डस्समाप्तः. . उक्तेषु गोत्रप्रवरेषु सत्सु सर्वेषु तेषां विनियोगमाहुः । बोधायनाद्याश्श्रुतितुल्यवाचः किंचित्क्वचित्कर्मणि तं प्रवक्ष्ये ॥ अत्राह बोधायनः विचित्कचितू. ... 17
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy