________________
क्षत्रियवेश्यकाण्डम्
हितप्रवरास्ते प्रवृणीरन् । अथ येषां स्युरपुरोहितप्रवरास्ते सपुरोहितप्रवरास्त्वेवं न्यायेन । एकार्षेया विशो वात्सप्रीत होता । वत्सप्रिवदित्यध्वर्युः ॥
आहतुः कात्यायनलौगाक्षी
पुरोहितप्रवरो राज्ञामेतेनैव वैश्यप्रवरो व्याख्यातो यदि स ऋषीन् प्रवृणीयात् मानवैलपौरूरवसेति ब्रूयादिति ॥
आहाश्वलायनः
१२७
पुरोहितप्रवरो राज्ञामथ यदि सार्धं प्रवृणीरन्मा
नवैलपौरूरवसेति ॥
सार्षं सहार्षेयमित्यर्थः ॥
इत्युक्तानि क्षत्रियवैश्यविषयाणि प्रवरसूत्रकाण्डानि.
1
तत्र द्विविधाः क्षत्रियाः केषांचिन्मन्त्रकृतो न सन्ति । केषां चित्सन्ति । येषां सन्ति आत्मीयमेव ते प्रवृणीरन् । येषां तु न सन्ति ते पुरोहितप्रवरान्प्रवृणीरन्निति पक्षद्वयमुपन्यस्य पुरोहितप्रवरानेव सर्वे क्षत्रियाः प्रवृणीरन्निति सिद्धान्तमाह — सपुरोहितप्रवरास्त्वेवं न्यायेनेति ॥ कः पुनः न्यायोऽभिप्रेतः ? सोयमुच्यते - सर्वेषां पुरोहितस्य विद्यमानत्वात् तेन च विना कर्मानधिकारात् पुर एनं हितमेव सर्वं नयतीति पुरोहितशब्दव्युत्पत्तेः आत्मीयप्रवरपक्षे सर्वेषां