________________
१२०
प्रवरमञ्जरी चतुरो वृणीते' इति चतुर्णा वरणप्रतिषेधात् । मत्स्यपुराणे च मित्रावरुणयोः बदर्याश्रमे तपस्यतोरागतां उर्वशी दृष्टवतोः शुक्र स्कन्नं क्वचित्तोयपूर्णे कलशे गृहीतम् ; ततो वसिष्ठो जातो वसिष्ठात् कुण्डिन इति दृष्टत्वात् तयोः ऋषित्वं तयोः पितृत्वं संहतं सिद्धमिति ॥ अत्र श्लोकः
वसिष्ठानां न सर्वेषां विवाहोस्ति परस्परम् । प्रातर्वसिष्टसंकृत्योर्न द्वयोरपि गोत्रयोः ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जर्यां
वसिष्ठगोत्रप्रवरकाण्डानि समाप्तानि.
अथागस्तिगोत्रप्रवरकाण्डमुदाहरिष्यामः
सप्तर्ण्यपत्यकुलसन्ततिगोत्रजानां काण्डानि सप्त विवृतानि गतान्यमूनि । व्यक्तीकृतप्रवरगोत्रविवाहतत्वं
प्रस्तूयते स्मृतिपदैस्त' दगस्तिकाण्डम् ॥ अत्रादौ बोधायनोक्तमगस्तिगोत्रकाण्डमुदाहरिष्यामः
अगस्तीन्व्याख्यास्यामः अगस्तयो विशालाद्यास्कालायनाः औपदहयनः कुल्माषदण्डिः लावर्णाः लाप्यः बवदयो वैरणयो बुधोदयः सैवपथयः शैशाल्वातपाः मौजकयः पाथोहृताः द्वारिग्रीवाः
शृं-स्मतिमदेतदगस्तिकाण्डम् ।।