SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वसिष्ठकाण्डम्, भालिरेषां पञ्चम एते धूम्राः पराशराः । पराशराणां सर्वेषां यार्षेयः प्रवरो मतः ॥ पराशरश्च शक्तिश्च वसिष्ठश्च महातपाः। परस्परमवैवाह्यास्सर्व एव पराशराः ॥ उक्तास्तवैते नृप वंशमुख्याः पराशरास्सूर्यसमप्रभावाः। येषां तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ॥ इति मत्स्यपुराणे प्रवरानुकीर्त ने वसिष्ठगोत्रप्रवराध्यायो द्वितीयः. व्याचक्ष्महे वसिष्ठानां गोत्रकाण्डान्यमूनि च । विवाहगोत्रप्रवरस्वरूपप्रतिपत्तये ॥ उक्तानामिह पञ्चानां वसिष्ठगणानां परस्परमविवाहः, समानगोत्रत्वात् । समानगोत्रत्वं च पञ्चसु प्रवरेषु वसिष्ठस्य सर्वैस्सत्तया व्रीयमाणतया चानुवृत्तेः । संकृत्यादीनां तु वसिष्ठैः सर्वैः स्वगणोक्तैश्च सहाविवाहः इति पूर्व मेवोक्तमाङ्गिरसकाण्डे । कुण्डिनानां तु प्रवरे वासिष्ठमैत्रावरुणकौण्डिन्येत्यत्र मित्रावरुणसंज्ञकावृषी मन्त्रदृशौ द्रष्टव्यौ । न देवताविशेषौ प्रसिद्धौ ग्राह्यौ । कुतः? “न देवैर्न मनुष्यैरार्षेयं वृणीते । ऋषिभिरेवार्षेयं वृणीते” इति श्रुतेः । तयोश्व मित्रावरुणयोरत्र संहतमृषित्वं द्रष्टव्यम् । न प्रत्येकम् । कुतः । न *स्तलेयाः श्वेतरूपयः । आरुणिरेषां पञ्चमः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy