________________
प्रवरमञ्जरी. तस्मादृषिवरौ जातौ तेजसाऽप्रतिमौ भुवि ।। वसिष्ठश्चाप्यगस्त्यश्च मित्रावरुणयोईयोः । वसिष्ठस्तूपयेमेऽथ भगिनीं नारदस्य तु ॥ अरुन्धती वरारोहां तस्यां शक्तिमजीजनत् । शक्तेः पराशरः पुत्रस्तस्य वंशं निबोध मे ॥ यस्य द्वैपायनः पुत्रस्स्वयं विष्णुरजायत । प्रकाशो जनितो येन लोके भारतचन्द्रमाः॥ पराशरस्य तस्य त्वं शृणुवंशमनुत्तमम् । काण्डर्षपो वाहनपो जैह्मपो भौमतापनः ॥ गोपालिरेषां पञ्चम एते गौराः पराशराः। प्रागेहया बाद्यतयाः पार्येयाः कौतुजातयः॥ हर्यश्व एषां पञ्चमः नीला ज्ञेयाः पराशराः। कार्णायनाः कपिश्रेष्ठाः कार्केयस्यानयातयाः॥ पष्करः पञ्चमश्चैषां कृष्णा ज्ञेयाः पराशराः । आविष्ठायनवालेयस्वायस्वाश्चौषयश्च ये॥ इषीकहस्तः पञ्चम एते श्वेताः पराशराः । पठिका बादरिश्चैव स्तम्भत्याः क्रौञ्चका बकाः॥ क्षौमिरेषां पञ्चम एते श्यामाः पराशराः ।। खल्वायना वार्णायनास्तैलेयाः खलु यूधपाः॥