________________
१०२
१०१
प्रवरमञ्जरी. अथ मत्स्यपुराणोक्तं कश्यपगोत्रकाण्डमुदाहरिष्यामःमत्स्य उवाचमरीचेः कश्यपः पुत्रः कश्यपस्य महाकुले। गोत्रकारानृषीन्वक्ष्ये तेषां नामानि मे शृणु ॥ आग्रायणा विषगणा मेषाविरिटिकायनाः । भवनन्दी महाचक्री दाक्षपायण एव च ॥ ग्राष्टेयना ह्यकिरयो हस्तिदस्तु तथैव च । वात्स्यायनानि कृतजा ह्याश्वलायनिनस्तथा ॥ प्राग्रायणः पैलमेलिराश्ववातायनस्तथा । कौषीतकास्स्वावतका अग्निशर्मायणिश्च ये ॥ मेषपाः कैकरसपास्तथा चैव सुचभ्रयः। यौलयो ज्ञानराधश्च अज्ञावस्सर्व एव तु ॥ श्यामोदरा वैवशपास्तथा वैलत्वलायनः। कष्टायनाश्च मारीचा आजिहायनहास्तिकाः॥ वैकर्णेयाः कश्यपाश्च सासिसाहारितायनाः। मतंससावभृगवस्त्र्यायाः परिकीर्तिताः॥ वत्सरः कश्यपश्चैव निध्रुवश्च महातपाः। परस्परमवैवाद्या ऋषयः परिकीर्तिताः॥ नैहास्यसांख्यमित्राश्च व्यार्षेयाः परिकीर्तिताः! वत्सरः कश्यपश्चैव निवश्व महातपाः॥