________________
७४ .
प्रवरमारी. शुङ्गस्य बीजात् वैश्वामित्रस्य कतस्य क्षेत्रोत्पन्नाः शुङ्गशैशिरय इत्युच्यन्ते । तत्सन्ततिनानां पञ्चायः प्रवरो द्रष्टव्यः-आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कोलेति । व्यायमपि प्रवरमाहुरापस्तम्बादयः-आङ्गिरसकात्यात्कीलेति । अयमेव दृष्टान्तो द्रष्टव्यः सत्स्वपि बहुषु मन्त्रदा कतिपयानामेव च वरणमस्तीत्यत्र । एवं पुत्रिकापुत्रदत्तक्रीतपुत्रादीनामपि द्वयोरपि गोत्रयोरविवाहः प्रवरश्च द्रष्टव्यः, शुङ्गशैशिरीणां दृष्टान्तत्वेनोक्तत्वात् । 'उर्व सप्तमात् पितृबन्धुभ्यो बीजिनश्च'* इत्येतद्गौतमवचनं द्वयामुष्यायणादन्यविषयं द्रष्टव्यम् । द्वयामुष्यायणानां तु पितृगोत्रमेवोभयमपीत्युभयत्राविवाह एव । सङ्कृत्यादीनामिहाङ्गिरसां गणेषूक्तानां उत्तरत्र आपस्तम्बादिभिः वसिष्ठगणान्ते वक्ष्यमाणत्वात् वासिष्ठस्यापि शक्तेरङ्गिरसां प्रवरेषूपदेशाचा किं वसिष्ठास्सङ्कृतयः? किं वाऽङ्गिरसः? इत्यत्र सन्देहेऽन्यतरपक्षनिश्चयहेतोरभावात् द्वयामुष्यायणास्सङ्कृतय इत्यवसातव्यम्, कात्यायनेनोत्तरत्र यामुष्यायणगणमध्ये प्रसिद्धद्वयामुष्यायणैः शुङ्गशैशिरिभिस्सह वक्ष्यमाणत्वात् । ड्यामुष्यायणत्वे च सङ्कतीनां स्वगणोक्तैरुपमन्युपराशरकुण्डिनादिभिर्वासिष्ठेस्सर्वैस्सह विवाहो नास्ति । तस्मादिह भरद्वाजकाण्डे केवलभरद्वाजानां ऋक्षाणां कपीनां गर्गाणां द्विगोत्राणां च पञ्चानां गणानां परस्परमविवाहः ; सगोत्रत्वात्, बोधायनवाक्याच्च । इति व्याख्यातं भरद्वाजगोत्रकाण्डम् ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमअाँ
भरद्वाजगोत्रप्रवरकाण्डं समाप्तम्.
*गौतमधर्मसू-४-३, ४. विरणोपदेशाच्च इति पाठान्तर
* विवाहोस्ति, इति पा.