________________
भरद्वाजकाण्डम्
राणे चतुर्थेऽशे एकोनविंशाध्याये पूरो वंशानुकीर्तनप्रस्तावे 'दुष्यन्ताचक्रवर्ती भरतो बभूव ' * इत्यारभ्य यन्नामानो यत्क्रमका यावन्तश्च . कपीनां प्रवरषयोत्र श्रुताः तन्नामानः तत्क्रमकाः तावन्तश्च पराशरेणोपदिष्टाः वंशानुपूर्व्यात् तत्र प्रथमोङ्गिराः, ततो बृहस्पतिः, ततो भरद्वाजः, ततो भरद्वाजादामहय्यः, तत उरुक्षयः, ततः कपिरुत्पन्नः' इति । तत्र सत्स्वेव बहुषु मन्त्रदृक्षु त्रयाणामेव वरणं सूत्रकारैरुक्तं रथीतराणामिवेत्यदोषः । तथाहि व्यासवचनम् -
इतिहासपुराणाभ्यां वेदं समुपवृह्मयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥ इति ॥
द्वयामुष्यायणाः शुङ्गशैशिरय इति पुरातनद्विगोत्रकुलं दृष्टान्तत्वेनोदाहृतं इदानीन्तनानां द्विगोत्राणां द्वयोरपि गोत्रयोरविवाहं वक्तुम् । भरद्वाजाश्शुङ्गाः, भरद्वाजगणमध्ये पठितत्वात् । तेषां चायं प्रवर उक्तः -- आङ्गिरसबार्हस्पत्य भारद्वाजेति । कताश्शैशिरयो विश्वामित्राः ; विश्वामित्रगणमध्ये पठितत्वात् । तेषां चायं प्रवरो वक्ष्यते —— वैश्वामित्रकात्यात्कलेति । तत्र च -
अपुत्रेण परक्षेत्रे नियोगोत्पादितस्सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥
७३
इति याज्ञवल्क्यवचनात् द्वयामुष्यायणानां उभयत्र प्रवरे कर्तव्ये सति षण्णां मन्त्रदृशां चतुर्णां च " न चतुरो वृणीते न पञ्चातिवृणीते" इति वरणप्रतिषेधात् पञ्चार्षेयस्वचार्षेयो वा प्रवरः कर्तव्यः । तत्र च द्विप्रवरसन्निपाते पूर्वप्रवर उत्पादयितुरुत्तरः परिग्रहीतुरिति कात्यायन लोगाक्ष्योरुत्तरत्र वचनात् भारद्वाजस्य +२-१२७;
*४-१९०१०.
10