________________
प्रवरमजरी. अथेमानि काण्डानि पिण्डीकृत्य व्याख्यास्यामः
यदुक्तमधस्ताद्धृगुगोत्रकाण्डव्यख्यानारम्भे सति "इहोदाहृतानाम्" इत्यारभ्य " व्याख्यास्यामः "1 इत्येवमन्तेन ग्रन्थेन तत्सर्वमिहापि स्मर्तव्यम् । अत्रोदाहृतेषु सूत्रकाण्डेषु सूत्रकाराणां पाठक्रमव्यत्यासो महानस्ति ; विशेषतश्चाश्वलायनसूत्रपाठे । कथं ? । बोधायनकात्यायनाश्वलायनादिभिः शुङ्गशैशिरयोन्ते पठिताः । आपस्तम्बादिभिः भरद्वाजगणमध्ये पठिताः । ऋक्षाः पुनराश्वलायनेन गौतमकाण्डमध्ये पठिताः इहोत्कृष्यन्ते । कपयस्त्वगिरोभ्यो वा ऋक्षेभ्यः परत उक्ता आपस्तम्बादिभिः । इतरैस्सर्वैरुत्तरत उक्ताः । तथा—सांकृत्यादयोपि बोधायनादिभिरन्तरे पठिताः । वसिष्ठगणान्तस्त्वापस्तम्बादिभिरुक्ताः । तथा—हरितमुद्गलादीनामपि तत्रतत्र पाठक्रमेण भेदः । एवम्भेदे सिद्धे सत्यपि बोधायनापस्तम्बकात्यायनादीनां बहूनां पाठक्रमानुसारेण विवाहाविवाहो वक्ष्यामः-तत्र केवलभरद्वाजानां प्रथमपठितानां शुङ्गशैशिरीणां भरद्वाजग्राथादीनां
यामुष्यायणादीनां परस्परमविवाहः.* कुतः ? समानगोत्रत्वात् । समानगोत्रत्वं च सर्वेषामेषां भरद्वाजस्य सप्तरपत्यत्वात्, वरणाच्च। 'भरद्वाजानां सर्वेषामवाविवाहः' इति बोधायनवचनाच्चाविवाहः । गर्गाणां भरद्वाजत्वं भरद्वाजवरणा देव सिद्धम् । 'त्र्यायगर्गाणां भरद्वाजक्षाणां चाविवाहः' इति गार्ग्यवचनाच्चाविवाहः । कपीनां भरद्वाजत्वं भरद्वाजवर णाभावादसिद्धमिति चेत्नासिद्धम् । आपस्तम्बादिभिर्भरद्वाजगणमध्ये प्रसिद्धभरद्वाजानां ऋक्षाणां गर्गाणां च मध्ये पठितत्वात्, पराशरवचनाञ्च । तथाहि-विष्णुपु
* प्राथादीनां च परस्परमविवाहः. इति शृ-पा. 1४५-पृष्ठे. द्विाजगणत्वादेव. इति शू-पा. * भरद्वाजगणा. शृ-पा.