SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ५ भरद्वाजकाण्डम एते तवोक्ताङ्गिरसस्त्रिधोक्ता महानुभावा नप गोत्रकाराः। येषां तु नाम्ना परिकीर्तनेन पापं समग्रं पुरुषो जहाति॥ इति मत्स्यपुराणे प्रवरानुकीर्तने त्रिविधानामगिरसां प्रवराध्यायो द्वितीयः ॥ इह मत्स्यपुराणोक्ते त्रिविधाङ्गिरसां प्रवरकाण्डे परिकीर्तितानां गोत्राणां मध्ये येषां प्रवरेषु गौतमः सप्तर्षिीयमाणतया सत्तया वाऽनुर्वतते तेषां परस्परमविवाहः, समानगोत्रत्वात्, “गौतमानां सर्वेषामेवाविवाहः” इति बोधायनवचनाच्च । तथा येषां गोत्रगणानां प्रवरेषु भरद्वाजः सप्तर्षिीयमाणतया सत्तया वाऽ नुवर्त ते तेषां परस्परमविवाहः; समानगोत्रत्वात्, “भरद्वाजानां सर्वेषामविवाहः” इति बोधायनवचनाचा ॥ इतरेषां सप्तर्षिबाह्यानां केवलाङ्गिरसां हरितकुत्सकण्वरथीतरपृषदश्वमुद्गलविष्णुवुद्धादीनां परस्परं विवाहः, सगोत्रत्वाभावात्, स्वेस्वे गणे चाविवाहः, समानप्रवरत्वादिति समुदायार्थः ॥ इति पुरषोत्तमपण्डितविरचितायां गोत्रप्रवरमार्या मत्स्यपुराणोक्तप्रवराध्याये त्रिविधाङ्गिरसां गोत्रप्रवरकाण्डमुदाहृत्य व्याख्यातम्. *इंदं पञ्चम्यन्तं शृं-कोशे नास्ति. अित्र चकारः शृं-कोशे नास्ति.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy