________________
साभ्यशत
.
૧૧૫
मा मुहः कवि संकल्पकल्पितामृतलिप्सया । निरामयपदप्राप्त्यै सेवस्व समतासुधाम् ॥९६।। योगग्रंथमहांभोधिभवमथ्य मनोमथा । साम्यामृतं समासाद्य सद्यः प्राप्नुहि निर्वृतिम् ॥९७।। मैत्र्यादिवासनामोदसुरभीकृतदिङ्मुखम् । पुमांसं धुवमायान्ति, सिद्धि गांगनाः स्वयम् ॥९८।। औदासीन्योल्लसन्मैत्रीपवित्रं वीतसंभ्रमम् । कोपादिव विमुंचन्ति स्वयं कर्माणि पुरुषम् ।।९९।। योगश्रद्धालवो ये तु नित्यकर्मण्युदासते । प्रथमे मुग्धबुद्धीनामुभयभ्रंशिनो हि ते ||१००। प्रातिहार्यमियं धत्ते निवृत्तिनिवृत्तिश्रियः । य एव रोचतेऽमुष्यै तां स एव हि पश्यति ||१०१।। अहो, वणिक्कला कापि मनसोऽस्य महीयसी । निवृत्तितुलया येन, तुलितं दीयते सुखम् ||१०२।। साम्यदिव्यौषधिस्थेममहिम्ना निहतक्रियम् । कल्याणमयतां धत्ते, मनो हि बहु पारदम् ||१०३।। भूयांसि यानि शास्त्राणि, यानि सन्ति महात्मनाम् । इदं साम्यशतं किंचित्तेषामंचलमंचतु ||१०४।। क्लेशावेशमपास्य निर्भरतरं ध्यातोऽपि यश्चेतसा, सत्कल्याणमयत्वमाशु तनुते योगीन्द्रमुद्राभृताम् । सोऽयं सिद्धरसः स्फुटं समरसो भावो मया व्याकृतः, श्रीमानद्भुतवैभवः सुमनसामानन्द जीवातवे ||१०५।। श्रीमच्चंद्रकुलांबुजैकतरणेः षट्तर्क विद्याटवी, सिंहस्याभयदेवसूरिसुगुरोरध्यात्मसंविज्जुषः शिष्यांशेन किमप्यकारि विजयप्राज्येन सिंहेन यनव्यं साम्यशतं तदस्तु सहृदामुज्जागरुकं हृदि ।।